Advertisements
Advertisements
प्रश्न
गद्यांशं पठित्वा कृतीः कुरुत। (6 तः 4)
|
दक्षिण-भारते सागर-मध्ये एकं लघुद्वीपं वर्तते। तस्मिन् द्वीपे सागरतरङ्गैः क्षाल्यमानं प्राचीनं नगरं कन्याकुमारी इति अस्ति। त्रयाणां सागराणां जले प्रतिबिम्बितं सूर्योदयस्य दृश्यम् अद्भुतमेव। सूर्यस्य क्रमशः अरुणा पीता धवला च शोभा दर्शकान् मन्त्रमुग्धान् करोति। एकदा स्वामिविवेकानन्दः समुद्रजले स्थितायामेकस्यां विशालायां शिलायाम् उपविष्टः त्रीणि दिनानि ध्यानमग्नः जातः। एतस्यां शिलायाम् एव विवेकानन्दकेन्द्रम् अस्ति। अत्र आगत्य साधकाः ध्यानं साधनां च कृत्वा जीवनं सफलं कुवन्ति। |
(1) पूर्णवाक्येन उत्तरं लिखत। 1
दक्षिणभारते सागरमध्ये किं वर्तते?
(2) प्रातिपदिकं लिखत। 1
(क) सागराणाम्
(ख) तस्मिन्
(3) वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत। 1
चन्द्रस्य शोभा दर्शकान् मन्त्रमुग्धान् करोति।
(4) माध्यमभाषया सरलार्थं लिखत। 1
एतस्यां शिलायाम् एव विवेकानन्दकेन्द्रम् अस्ति।
(5) गद्यांशात् 1 अव्ययं चित्वा लिखत। 1
(6) कारकपरिचयं कुरुत। 1
त्रयाणां सागराणां जले प्रतिबिम्बितं सूर्योदयस्य दृश्यम् अद्भुतमेव।
Advertisements
उत्तर
(1) दक्षिण-भारते सागर-मध्ये एकं लघुद्वीपं वर्तते।
(2)
(क) सागराणाम् - सागर
(ख) तस्मिन् - तद्
(3) चन्द्रस्य शोभा दर्शकान् मन्त्रमुग्धान् करोति। - असत्यम्
(4)
English: The Vivekananda Center is located on this rock.
हिन्दी: विवेकानंद केंद्र इसी शिला पर स्थित है।
मराठी: विवेकानंद केंद्र या खडकावर आहे.
(5) एव
(6) अधिकरणम्।
