Advertisements
Advertisements
प्रश्न
एका छात्रा स्वमातुः दिनचर्या सचित्रं वर्णयति। सा रूपाणि न जानाति अतः केवलं तत्र धातून् लिखति। किं भवन्तः/भवत्यः तस्याः सहायतां करिष्यन्ति?
मम माता प्रातः पञ्चवादने ... (उत्तिष्ठ)।

सा मदर्थं पाकशालायां भोजनं ... (पच)।

सा विद्यालये छात्रान् ... (शिक्षय)।

मध्याह्ने सा दूरदर्शने संस्कृतवार्ताः ... (श्रु)।

सायङ्काले सा आपणात् फलानि ... (आनय)।

यदा कदा सा वस्त्राणि अपि ... (सीव्य)।

रात्रौ सर्वैः सह भोजनं ... (कृ)।

ततः सा पित्रा मया च सह भ्रमणाय ... (गम्)।
दशवादने सा ... (स्वप्)।
मम माता मयि अत्यन्तं ... (स्निह)।
Advertisements
उत्तर
मम माता प्रातः पञ्चवादने उत्तिष्ठति।
सा मदर्थं पाकशालायां भोजनं पचति।
सा विद्यालये छात्रान् शिक्षयति।
मध्याह्ने सा दूरदर्शने संस्कृतवार्ताः शृणोति।
सायङ्काले सा आपणात् फलानि आनयति।
यदा कदा सा वस्त्राणि अपि सीव्यति।
रात्रौ सर्वैः सह भोजनं करोति।
ततः सा पित्रा मया च सह भ्रमणाय गच्छति।
दशवादने सा स्वपिति।
मम माता मयि अत्यन्तं स्निह्यति।
