हिंदी

अनुच्छेदं पठित्वा अधोलिखितानां प्रश्नानाम् उत्तराणि देयानि - प्राचीनकाले आयुर्वेदाचार्यः आत्रेयः स्वशिष्याणां परीक्षार्थं तान् वनात् तादृशं कमपि वनस्पतिम् आनेतुम् आदिष्टवान्,

Advertisements

प्रश्न

अनुच्छेदं पठित्वा अधोलिखितानां प्रश्नानाम् उत्तराणि देयानि -

प्राचीनकाले आयुर्वेदाचार्यः आत्रेयः स्वशिष्याणां परीक्षार्थं तान् वनात् तादृशं कमपि वनस्पतिम् आनेतुम् आदिष्टवान्, यस्य किमपि औषधीयमहत्त्वं न स्यात्। सर्वे शिष्याः यं कमपि वनस्पतिम् अनुपयुक्तं मत्वा आनीतवन्तः, किन्तु अन्ते तस्य प्रियशिष्यः जीवितरामः रिक्तहस्तः प्रत्यागतवान्। गुरुणा पृष्ठे सति ‘अहं सम्पूर्णप्रकृतौ तादृशं कमपि वनस्पतिं न प्राप्तवान्, यस्मिन् औषधीयगुणः न स्यात्’ इति खिन्नः भूत्वा जीवितरामः अवदत्। तस्य एतद् वचनं श्रुत्वा गुरुः अतीव प्रसन्नः अभवत्, तं च परीक्षायां सफलं घोषितवान्। कथानकस्य सारः अस्ति यत् प्रत्येकमपि वनस्पतौ कोऽपि औषधीयगुणः अवश्यमेव वर्तते।

(क) आत्रेयः कीदृशं वनस्पतिम् आनेतुं शिष्यान् प्रेषितवान्?

(ख) प्रियशिष्यः जीवितरामः कथं प्रत्यागतवान्?

(ग) खिन्नः जीवितरामः किम् अवदत्?

(घ) जीवितरामस्य वचनं श्रुत्वा गुरुः किं कृतवान्?

(ङ) अस्य कथानकस्य सारः कः?

दीर्घउत्तर
Advertisements

उत्तर

(क) आत्रेयः तादृशं वनस्पतिम् आनेतुं शिष्यान् प्रेषितवान्, यस्य किमपि औषधीयमहत्त्वं न स्यात् अर्थात् यस्मिन् कोऽपि औषधीयगुणः न स्यात्।

(ख) प्रियशिष्यः जीवितरामः रिक्तहस्तः प्रत्यागतवान्।

(ग) खिन्नः जीवितरामः अवदत् – ‘अहं सम्पूर्णप्रकृतौ तादृशं कमपि वनस्पतिं न प्राप्तवान्, यस्मिन् औषधीयगुणः न स्यात्’।

(घ) जीवितरामस्य वचनं श्रुत्वा गुरुः अतीव प्रसन्नः अभवत्, तं च परीक्षायां सफलं घोषितवान्।

(ङ) अस्य कथानकस्य सारः – प्रत्येकमपि वनस्पतौ कोऽपि औषधीयगुणः अवश्यमेव वर्तते। अतः किमपि वनस्पतिं निरुपयोगि न मन्येत।

shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 3: वैद्यवृत्तिश्चतुर्विधा - अभ्यासाद् जायते सिद्धिः [पृष्ठ २९]

APPEARS IN

एनसीईआरटी Sanskrit Rishikulya (R2) [English] Class 9
अध्याय 3 वैद्यवृत्तिश्चतुर्विधा
अभ्यासाद् जायते सिद्धिः | Q ५. | पृष्ठ २९
Advertisements
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×