अहं पाटलपुष्पम् अस्मि। वृते वसामि। पवनः मां मन्दं मन्दम् आन्दोलनयति। दिने रविकिरणाः मां विकासयन्ति, रात्रौ ज्योत्सना मां लालयति। मम अनेके वर्णाः-श्वेतः, पीतः नारङ्गः, अरुणः पाटलश्च।
Advertisements
Advertisements
प्रश्न
| अहं पाटलपुष्पम् अस्मि। वृते वसामि। पवनः मां मन्दं मन्दम् आन्दोलनयति। दिने रविकिरणाः मां विकासयन्ति, रात्रौ ज्योत्सना मां लालयति। मम अनेके वर्णाः-श्वेतः, पीतः नारङ्गः, अरुणः पाटलश्च। एतेषु रक्तिमः वर्णः जनेभ्यः सर्वाधिकं रोचते। यत्र सौन्दर्यं कमनीयतां च कवयः वर्णयितुम् इच्छन्ति, मम उपयोगं कुर्वन्ति। अहं विवाहादिसमारोहेषु मण्डपानां शोभाम् आतनोमि। वर-वध्वोः जयमालयोः अहं विलसामि। अहं मृदुना सुगन्धेन वातावरणं सुरभितं करोमि। मम स्वल्पकालजीवनमपि लोकहितम् आतनोति अतः पूर्णं विकसितं मे रूपम् अभिनन्दन्ति जनाः। विकसितरूपे स्थितम् अहं मानवस्य निराशामयं जीवनम् अपि आशामयं करोमि। स्वगन्धं विकीर्यं अन्ते प्रकृतिमातुः अङ्के स्वपिमि। |
अ. एकपदेन उत्तरत -
(क) पाटलपुष्पं स्वगन्धं विकीर्यं अन्ते कस्याः अङ्के स्वपिति?
(ख) पाटलपुष्पं के विकासयन्ति?
(ग) पाटलपुष्पस्य मृदुना सुगन्धेन वातावरणं कीदृशं भवति?
(घ) पाटलपुष्पं कुत्र वसति?
आ. पूर्णवाक्येन उत्तरत -
(क) विकसितरूपे स्थितं पाटलपुष्पं किं करोति?
(ख) पाटलपुष्पस्य के के वर्णाः भवन्ति?
(ग) कवयः कदा पाटलपुष्पस्य उपयोगं कुर्वन्ति?
(घ) पाटलपुष्पस्य स्वल्पकालजीवनम् अपि किं करोति?
इ. गद्यांशस्य समुचितं शीर्षकं लिखत।
ई. यथानिर्देशं समुचितमुत्तरं विकल्पेभ्य चिनुत -
(क) ‘पवनः’ इति कर्तृपदस्य क्रियापदं गद्यांशे किं प्रयुक्तम्?
- लालयति
- आन्दोलनयति
- आतनोति
- रोचते
(ख) ‘रक्तिमः वर्णः जनेभ्यः सर्वाधिकं रोचते।’ वाक्येऽस्मिन् विशेषणपदं किं प्रयुक्तम्?
- वर्णः
- जनेभ्यः
- सर्वाधिकम्
- रक्तिमः
(ग) ‘सुवासितम्’ इति पदस्य पर्यायपदं गद्यांशे किं प्रयुक्तम्?
- सुरभितम्
- विकसितम्
- स्थितम्
- आशामयम्
(घ) ‘रात्रौ’ इति पदस्य विलोमपदं गद्यांशे किं प्रयुक्तम्?
- दिने
- वृन्ते
- विकीर्यं
- विकसितरूपे
Advertisements
उत्तर
अ.
(क) प्रकृतिमातुः
(ख) रविकिरणाः
(ग) सुरभितम्
(घ) वृन्ते
आ.
(क) विकसितरूपे स्थितं पाटलपुष्पं मानवस्य निराशामयं जीवनम् अपि आशामयं करोति।
(ख) श्वेतः, पीतः, नारङ्गः, अरुणः च पाटलः वर्णाः भवन्ति।
(ग) यत्र सौन्दर्यं कमनीयतां च कवयः वर्णयितुम् इच्छन्ति तदा कवयः पाटलपुष्पस्य उपयोगं कुर्वन्ति।
(घ) पाटलपुष्पस्य स्वल्पकालजीवनम् अपि लोकहितम् आतनोति।
इ. पाटलपुष्पम् — लोकहितकारी पुष्पम्
ई.
(क) आन्दोलनयति
(ख) रक्तिमः
(ग) सुरभितम्
(घ) दिने
