हिंदी

अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत - अयं संसारः जनानां कर्मभूमिः अस्ति। अस्मिन्‌ संसारे यावन्तः जनाः जन्म गृहृन्ति, तेषां पृथक्‌ पृथक्‌ कर्तव्यानि भवन्ति। - Sanskrit (Communicative)

Advertisements
Advertisements

प्रश्न

अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत -

अयं संसारः जनानां कर्मभूमिः अस्ति। अस्मिन्‌ संसारे यावन्तः जनाः जन्म गृह्णन्ति, तेषां पृथक्‌ पृथक्‌ कर्तव्यानि भवन्ति। एतानि कर्तव्यानि अनेकविधानि भवन्ति। कानिचिद्‌ व्यक्तिगतानि कानिचित्‌ पारिवारिकाणि, कानिचित्‌ सामाजिकानि। कानिचित्‌ नित्यानि भवन्ति कानिचित्‌ च नैमित्तिकानि। एतेषां सर्वेषां कर्तव्यानां पालनं मनुष्यस्य व्यक्तिगतहिताय देशहिताय च परमावश्यकं भवति। परमद्य जनेषु कर्तव्यपालनं प्रति न कापि निष्ठा। कोऽपि श्रमेण सत्यतया निष्ठया च कार्यं कर्तुं न वाञ्छति। अल्पेन एव प्रयासेन ते कार्यसिद्धिम्‌ इच्छन्ति। ते केवलं स्वार्थपूर्तिं कर्तुम्‌ इच्छन्ति। अधिकाराय तु सर्वे प्रयतन्ते परं कर्तव्यं प्रति कोऽपि ध्यानं न ददाति। सत्यमेतद्‌ यावद्‌ वयं परिश्रमपूर्वकं श्रद्धापूर्वकं च स्वकर्तव्यानि न पालयामः तावद्‌ देशस्य समाजस्य च उन्नतिः भवितुं न अर्हति। कर्तव्यपालनम्‌ एव आत्मना देशस्य च उन्नतेः मूलमन्त्रोऽस्ति।

अ. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्‌)        2

  1. अयं संसारः केषां कर्मभूमिः अस्ति?
  2. उन्नतेः मूलमन्त्रं किम्‌ अस्ति?
  3. जनाः किं विहाय केवलम्‌ अधिकाराय प्रयतन्ते?

आ. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्‌)       4

  1. देशस्य उन्नतिः कदा भवितुम्‌ अर्हति?
  2.  कर्तव्यपालनं किमर्थम्‌ आवश्यकम्‌?
  3. अद्यत्वे जनाः कथं कार्यसिद्धिम्‌ इच्छन्ति?

इ. अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत।       1

ई. यथानिर्देशम्‌ उत्तरत -        3

  1. ‘अयं संसारः कर्मभूमिः अस्ति।’ अस्मिन्‌ वाक्ये क्रियापदं किम्‌?
    (क) अयम्‌
    (ख) संसारः
    (ग) कर्मभूमिः
    (घ) अस्ति
  2. ‘प्रयत्नं कुर्वन्ति’ एतदर्थं किं क्रियापदं गद्यांशे प्रयुक्तम्‌?
    (क) प्रयतन्ते 
    (ख) अर्हति
    (ग) इच्छन्ति 
    (घ) भवन्ति
  3. ‘प्रयासेन’ इति पदस्य किं विशेषणपदं गद्यांशे प्रयुक्तम्‌?
    (क) निष्ठा
    (ख) अल्पेन
    (ग) सत्यता
    (घ) श्रमेण
आकलन
Advertisements

उत्तर

अ. 

  1. जनानाम्‌
  2. कर्तव्यपालनम्‌
  3. कर्तव्यम्‌

आ. 

  1. यदा वयं परिश्रमपूर्वकं श्रद्धापूर्वकं च स्वकर्तव्यानि पालयामः तदा देशस्य उन्नतिः भवितुम्‌ अर्हति।
  2. कर्तव्यानां पालनं मनुष्यस्य व्यक्तिगतहिताय देशहिताय च परमावश्यकं भवति।
  3. अद्यत्वे जनाः अल्पेन एव प्रयासेन कार्यसिद्धिम्‌ इच्छन्ति।

इ. कर्तव्यपालनम्‌ अथवा अन्यत्‌ किमपि उचितं शीर्षकम्‌। छात्रस्य उत्तरं दृष्ट्वा छात्रहिताय समुचितं मूल्याङ्कन करणीयम्‌।

ई. 

  1. अस्ति
  2. प्रयतन्ते 
  3. अल्पेन
shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2025-2026 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×