हिंदी

अधोलिखितं गद्यांशं पठित्वा प्रदन्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत। कश्चन निर्धनो जनः भूरि परिश्रम्य कश्चिद्‌ वित्तमुपार्जितवान्‌। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितं गद्यांशं पठित्वा प्रदन्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत।

कश्चन निर्धनो जनः भूरि परिश्रम्य किश्चिद्‌ वित्तमुपार्जितवान्‌। तेन वित्तेन स्वपुत्रम्‌ एकस्मिन्‌ महाविद्यालये प्रवेशं दापयितुं सफलो जातः। तत्तनयः तत्रैव छात्रावासे निवसन्‌ अध्ययने संलग्नः समभूत्‌। एकदा स पिता तनूजस्य रुग्णतामाकर्ण्य व्याकुलो जातः पुत्रं द्रष्टुं च प्रस्थितः। परमर्थकार्श्येन पीडितः स बसयानं विहाय पदातिरेव प्राचलत्‌। पदातिक्रमेण संचलन्‌ सायं सतयेऽप्यसौ गन्तव्याद्‌ दूरे आसीत्‌। निशान्धकारे प्रसृते विजने प्रदेशे पदयात्रा न शुभावहा 'इति विचार्य स पार्श्वस्थिते ग्रामे रात्रिनिवासं कर्तुं कञ्चिद्‌ गृहस्थमुपागतः।'

करुणापरो गृही तस्मै आश्रयं प्रायच्छत्‌।

(i) एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्‌)        1

(क) कीदृशः जनः भूरि परिश्रम्य किञ्चिद्‌ वित्तमुपार्जितवान्‌?

(ख) तनयः कूत्र निवसन्‌ अध्ययने संलग्नः समभूत्‌?

(ग) करुणापरो गृही कस्मै आश्रयं प्रायच्छत्‌?

(ii) पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्‌)      2

(क) स पिता किमर्थं व्याकुलो जातः?

(ख) सः किं विचार्य पार्श्वस्थिते ग्रामे रात्रिनिवासं कर्तुं कश्चिद्‌ गृहस्थमुपागतः?

(ग) अर्जितेन वित्तेन सः जनः किम्‌ अकरोत्‌?

(iii) निर्देशानुसारम्‌ उत्तरत -(केवलं प्रश्नद्वयम्‌)        2

(क) "परमर्थकार्श्येन पीडितः सः बसयानं विहाय पदातिरेव प्राचलत्‌" अत्र वाक्ये कर्तृपदं किम्‌?

(ख) 'करुणापरः' इति विशेषणपदस्य विशेष्यपदं किम्‌?

(ग) 'पुत्रस्य' इति पदस्य किं पर्यायपदं गद्यांशे प्रयुक्तम्‌?

आकलन
Advertisements

उत्तर

(i) 

(क) निर्धनोजनः।

(ख) छात्रावासे।

(ग) निर्धनजनाय। (तस्मै)

(ii) 

(क) स पिता तनजस्य रूग्णतामा कर्ण्य व्याकुलो जातः।

(ख) निशान्धकारे प्रसृते विजने प्रदेशे पदयात्रा न शुभावहा इति विचार्य स पार्श्व स्थिते ग्रामे रात्रि निवासं कञ्चिद्‌ गृहस्थमुपागतः।

(ग) अर्जितेन वित्तेन सः स्वपुत्रम्‌ एकस्मिन्‌ महाविद्यालये प्रवेश कार्याय व्ययमकरोत्‌।

(iii) 

(क) सः कर्तृपदम्‌।

(ख) 'गृही' विशेष्यपदम्‌।

(ग) 'तनयः' इति पर्यायपदम्‌।

shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2022-2023 (March) Set 4
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×