हिंदी

अधोलिखितं गद्यांश पठित्वा तदाधारितान्‌ प्रश्नान्‌ यथानिर्देशं संस्कृतेन उत्तरत - राज्ञः वहिप्रवेश-कार्यक्रमं श्रुत्वा वत्सराजः बुद्धिसागर नत्वा शनैः शनैः प्राह - तात! - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

अधोलिखितं गद्यांश पठित्वा तदाधारितान्‌ प्रश्नान्‌ यथानिर्देशं संस्कृतेन उत्तरत -

राज्ञः वहिप्रवेश-कार्यक्रमं श्रुत्वा वत्सराजः बुद्धिसागर नत्वा शनैः शनैः प्राह - तात! मया भोजराजो रक्षित एवास्ति। पुनः बुद्धिसागरेण तस्य कर्णे किमपि कथितम्‌, यन्निशम्य वत्सराजः ततो निष्क्रान्तः। पुनः राज्ञो वह्विप्रवेशकाले कश्चन कापालिकः सभां समागतः। सभामागतं कापालिकं दण्डवत्‌ प्रणम्य मुञ्जः प्रावोचत्‌ - हे योगीन्द्र! मया हतस्य पुत्रस्य प्राणदानेन मां रक्षेति। अथ कापालिकस्तं प्रावोचत्‌ - राजन्‌! मा भैषीः। शिवप्रसादेन सः जीवितो भविष्यति। तदा श्मशानभूमौ कापालिकस्य योजनानुसारं भोजः तत्र समानीतः। 'योगिना भोजो जीवितः इति कथा लोकेषु प्रसृता।

अ. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्‌)         1

(क) भोजः कुत्र समानीतः?

(ख) राज्ञः वह्विप्रवेशकाले कः सभां समागतः?

(ग) भोजः कस्य प्रासादेन जीवितो भविष्यति?

आ. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्‌)       2

(क) वत्सराजो बुद्धिसागरं नत्वा किं प्राह?

(ख) लोकेषु का कथा प्रसृता?

(ग) मुञ्जः कापालिकं किं प्रार्थयत्‌?

इ. यथानिर्देशम्‌ उत्तरत - (केवलं प्रश्नद्वयम्‌)        2

(क) 'प्राह' इति क्रियापदस्य कर्तृपदं किम्‌?

(ख) 'मया हतस्य पुत्रस्य प्राणदानेन मां रक्षेति।' अत्र 'पुत्रस्य' इति पदस्य किं विशेषणं प्रयुक्तम्‌?

(ग) 'अग्रिः' इति पदस्य पर्यायपदं किमत्र प्रयुक्तम्‌?

एक पंक्ति में उत्तर
एक शब्द/वाक्यांश उत्तर
Advertisements

उत्तर

अ. 

(क) श्मशानभूमौ

(ख) कापालिकः

(ग) शिवप्रसादेन

आ. 

(क) वत्सराजः बुद्धिसागर नत्वा शनैः शनैः प्राह - तात! मया भोजराजो रक्षित एवास्ति। 

(ख) 'योगिना भोजो जीवितः इति कथा लोकेषु प्रसृता।

(ग) मुञ्जः कापालिकं प्रार्थयत्‌ - हे योगीन्द्र! मया हतस्य पुत्रस्य प्राणदानेन मां रक्षेति।

इ. 

(क) वत्सराजः

(ख) हतस्य

(ग) वह्वि:

shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×