Advertisements
Advertisements
प्रश्न
अधोलिखितायां कथायां कानिचित् पदानि रेखाङ्कितानि सन्ति तेषां विग्रहान् रिक्तस्थानेषु लिखत -
एकः अतिदुष्टः वानरः आसीत्। प्रतिदिनं सः यथाशक्ति वृक्षे स्थितान् पक्षिणः तुदति स्म। उपनीडं गत्वा तेषां श्रमस्य उपहासं करोति स्म। एकः पक्षी अवदत् - भोः किमर्थम् उपहससि? अनुवृष्टि नीडम् एव अस्मान् रक्षति। वयं परिश्रमं कुर्मः निर्विघ्नं च जीवामः। वानरः साट्टहासम् अवदत् - मूर्खाः यूयम्! अरे योगिनां कुतः गृहम्? एवं कथयित्वा तेन दुष्टेन पक्षिणां नीडानि भग्नानि। एकः पक्षी अवदत्-योगिनः तु प्रतिजीवम् उपकारमेव कुर्वन्ति। किम् इदम् अनुरूपं साधुजनस्य?
| 1. ..... | 2. ..... | 3. ..... |
| 4. ..... | 5. ..... | 6. ..... |
| 7. ..... | 8. ..... |
व्याकरण/भाषा
Advertisements
उत्तर
- दिने दिने इति।
- शक्तिम् अनतिक्रम्य।
- नीडस्य समीपम्।
- वृष्टेः पश्चात्।
- विघ्नानाम् अभावः।
- अट्टहासेन सह।
- जीवम् जीवम् प्रति।
- रूपस्य योग्यम्।
shaalaa.com
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
