हिंदी

अधः प्रदत्तान् अनुच्छेदान् पठित्वा प्रश्नान् उत्तरत - गोमायुः नाम कश्चन शृगालः आसीत्। एकदा सः महत्या बुभुक्षया पीडितः अभवत्। तया तस्य शरीरे शैथिल्यम् अभवत्।

Advertisements
Advertisements

प्रश्न

अधः प्रदत्तान् अनुच्छेदान् पठित्वा प्रश्नान् उत्तरत -

गोमायुः नाम कश्चन शृगालः आसीत्। एकदा सः महत्या बुभुक्षया पीडितः अभवत्। तया तस्य शरीरे शैथिल्यम् अभवत्। तदा सः आहारान्वेषणार्थम् अरण्ये इतस्ततः भ्रमति स्म। भ्रमन् सः अरण्यस्य मध्ये तत् स्थानं प्राप्तवान् यत्र केभ्यश्चित् दिनेभ्यः पूर्वं द्वयोः सैन्ययोः मध्ये युद्धं जातम् आसीत्। तत्र सैनिकैः प्रयोगः कृतः कश्चन दुन्दुभिः पतितः आसीत्। वायोः कारणात् समीपस्थायाः लतायाः शाखाः यदा दुन्दुभिं घट्टयन्ति तदा ततः महान् शब्दः भवति स्म। शृगालः दूरादेव तं महान्तं शब्दं श्रुतवान्। तस्य महाशब्दस्य श्रवणेन शृगालः भीतः अभवत्। सः एवम् अचिन्तयत् - हन्त! हा हतोऽस्मि। एवं शब्दं कुर्वतः प्राणिनः दृष्टिपथं यावत् न गच्छामि तावदेव इतः अन्यत्र गच्छामि इति। सः पुनः चिन्तयति - अथवा झटिति एवं निर्णयकरणं नोचितम्। भयं हर्षः वा यदा जायते तद्विषये विमर्शः करणीयः, झटिति किमपि कार्यं न कर्तव्यम्। एवं सर्वं विचिन्त्य यः कार्यं करोति सः सन्तापं न प्राप्नोति।

(अ) एकपदेन उत्तरत-

  1. शृगालः कया पीडितः अभवत्?
  2. यः विचिन्त्य कार्यं करोति सः किं न प्राप्नोति?
  3. शृगालस्य नाम किम् आसीत्?

(आ) पूर्णवाक्येन उत्तरत-

  1. शृगालः भ्रमन् अरण्यमध्ये किं प्राप्तवान्?
  2. शृगालः पुनः किं चिन्तयति?
  3. गोमायुः किमर्थं वने इतस्ततः भ्रमति स्म?

(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत।

(ई) प्रदत्तविकल्पेभ्यः उचितम् उत्तरं निर्देशानुसारं चित्वा लिखत -

  1. “महाशब्दस्य श्रवणेन शृगालः भीतः अभवत्।” अस्यां पङ्क्तौ कर्तृपदं किम्?
    (क) महाशब्दस्य (ख) शृगालः (ग) श्रवणेन (घ) अभवत्
  2. “महान्” इति विशेषणपदस्य किं विशेष्यपदम् अनुच्छेदे प्रयुक्तम्?
    (क) शब्दः (ख) गोमायुः (ग) विमर्शः (घ) कर्तव्यम्
  3. “दुःखम्” इति पदस्य किं समानार्थकं पदम् अनुच्छेदे प्रयुक्तम्?
    (क) हर्षः (ख) सन्तापम्/सन्तापः (ग) भयम् (घ) विमर्शः
  4. ‘अविचार्य’ इति पदस्य विलोमपदम् अनुच्छेदात् चित्वा लिखत।
    (क) विचिन्त्य (ख) श्रुत्वा (ग) भ्रमन् (घ) कर्तव्यम्
आकलन
Advertisements

उत्तर

(अ) 

  1. बुभुक्षया।
  2. सन्तापम्।
  3. गोमायुः।

(आ) 

  1. सः तत् स्थानं प्राप्तवान् यत्र द्वयोः सैन्ययोः मध्ये युद्धं जातम् आसीत्।
  2. सः अचिन्तयत् यत् झटिति निर्णयकरणं न उचितम्; भये हर्षे वा विमर्शः करणीयः, झटिति किमपि कार्यं न कर्तव्यम्।
  3. आहारान्वेषणार्थम्।

(इ) विमर्शस्य महत्त्वम्।

(ई) 

  1. शृगालः
  2. शब्दः
  3. सन्तापम्/सन्तापः
  4. विचिन्त्य
shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 28: अपठितावबोधनम्‌ - अपठितावबोधनम् [पृष्ठ १७७]

APPEARS IN

सीबीएसई Sanskrit Manika Prathamo Bhag Class 9
अध्याय 28 अपठितावबोधनम्‌
अपठितावबोधनम् | Q 2. | पृष्ठ १७७
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×