मराठी

CBSE solutions for संस्कृत मणिका द्वितीयो भाग इयत्ता १० chapter * - अव्ययानि [Latest edition]

Chapters

    *: पुनरावृत्तिः - (वर्णानाम् उच्चारणस्थानानि, स्वरसमयः, व्यञ्जनसमयः, विसर्गसन्धयः)

प्रथम: अभ्यास: - सन्धयः:

    (क): स्वरसन्धय:

    (ख): व्यजञ्जनसन्धय:

    (ग): विसर्गसन्धि:

द्वितीय: अभ्यास: - समासा:

    (क): अव्ययीभाव समास:

    (ख): तत्पुरुषा:

    (ग): द्वन्द्वसमास:

    (घ): बहुव्रीहि:

तृतीय: अभ्यास: - प्रत्यया:

    (क): कृत्प्रत्ययाः

    (ख): तद्धितप्रत्यया:

    (ग): स्त्रीप्रत्ययौ:

चतुर्थ: अभ्यास:

    *: वाच्यम्‌

पञ्चम: अभ्यास:

    *: सङ्ख्या

षष्ठ: अभ्यास

    *: समयः

सप्तम: अभ्यास:

▶ *: अव्ययानि

अष्टम: अभ्यास

    *: अशुद्धिसंशोधनम्‌

नवम: अभ्यास: रचनात्मककार्यम्‌

    (क): चित्रवर्णनम्‌

    (ख): अनुच्छेदलेखनम्‌

    (ग): पत्रलेखनम्‌

    (घ): संवादलेखनम्‌

    (ड़): कथापूर्तिः

दशम: अभ्यास:

    *: अपठितावबोधनम्‌

CBSE solutions for संस्कृत मणिका द्वितीयो भाग इयत्ता १० chapter * - अव्ययानि - Shaalaa.com
Advertisements
Advertisements

Solutions for Chapter *: अव्ययानि

Below listed, you can find solutions for Chapter * of CBSE CBSE for संस्कृत मणिका द्वितीयो भाग इयत्ता १०.


अव्ययानिमिश्रितप्रश्ना:
Advertisements
अव्ययानि [Pages 108 - 113]

CBSE solutions for संस्कृत मणिका द्वितीयो भाग इयत्ता १० * अव्ययानि अव्ययानि [Pages 108 - 113]

1.Page 108
(प्रातः उपवनं गत्वा बालाः परस्परम् आलपन्ति।)
रमेशः एतत् उपवनम्। उपवनं परितः वृक्षाः शोभन्ते।
तरुणः पश्य, अत्र बालकाः पादकन्दुकेन क्रीडन्ति।
मेधावी आम्, तत्र एका कन्या अपि सखीभिः सह क्रीडति।
कर्णः अत्र केचन जनाः तु शनैः-शनैः भ्रमन्ति केचित् च शीघ्रं-शीघ्रं चलन्ति।
भास्करः पश्य, एकतः मालाकारः खनित्रेण भूमिं खनति बीजं च वपति।
मोहनः सर्वत्र केदारेषु अनेकवर्णानि पुष्पाणि विकसन्ति।
मनीषा पुष्पैः सह कण्टकानि अपि भवन्ति तथापि तानि सदा प्रसन्नचित्तानि एव।
रमेशः वयम् अपि पुष्पाणि इव सदा प्रसन्नाः भवेम।

उपरिलिखितेषु वाक्येषु रेखाङ्कितपदानि चित्वा मञ्जूषायां लिखत -

मञ्जूषा

... ... ... ...
... ... ... ...
... ... ... ...
... ... ... ...
2.Page 108

मञ्जूषातः उचित-अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत -

वने (i) ______ पशुमहोत्सवः अस्ति। मञ्चस्य (ii) ______ सिंहः विराजते। आकाशे (iii) ______ मेघाः सन्ति। मेघान् दृष्ट्वा मयूराः वृक्षाणाम् (iv) ______ नृत्यन्ति। पशवः (v) ______ भ्रमन्ति। सर्पः कोटरात् (vi) ______ आगच्छति। सर्पात् भीताः पशवः कोलाहलं कुर्वन्ति। कोलाहलं श्रुत्वा सिंहः (vii) ______ गर्जति आदिशति च - भोः! कोलाहलं (viii) ______ कुरुत। शृणुत - अस्माकं जीवनं वृक्षान् (ix) ______ असम्भवम्। वृक्षाः फलानि छायां (x) ______ दत्त्वा अस्मान् उपकुर्वन्ति। (xi) ______ अस्माभिः वने (xii) ______ वृक्षाः रक्षणीयाः।

मञ्जूषा

नूनम्, उच्चैः, अद्य, बहिः, मा, उपरि, अधः, अतः, विना, इतस्ततः, च, सर्वत्र।
3.Page 109
अध्यापिका नमिते! किं त्वं जानासि कालिदासस्य कालम्?
नमिता महाकविः कालिदासः पुरा अभवत्, परं तस्य निश्चितकालं न जाने।
अध्यापिका राधे! किं त्वया तेन लिखितम् अभिज्ञानशाकुन्तलं नाटकं दृष्टम्?
राधा आम्! महोदये! अहं तत् नाटकं द्रष्टुं ह्यः रवीन्द्ररङ्गशालाम् अगच्छम्।
अध्यापिका नमिते! त्वम् इदं नाटकं द्रष्टुं कदा गमिष्यसि?
नमिता
अहं तु एतत् द्रष्टुं श्वः गमिष्यामि।
अध्यापिका
लतिके! किं त्वं नाटकं द्रष्टुं न इच्छसि?
लतिका
इच्छामि। यदा मम माता अनुमतिं दास्यति तदा अहं द्रक्ष्यामि।

स्थूलाक्षराणि अव्ययपदानि अधः लिखत -

........ ........ ........ ........ ........ ........

4. (क)Page 110

मञ्जूषायां दत्तान् शब्दान् संयोज्य कानिचित् वाक्यानि रचयत -

अहम् ह्यः उपवने अगच्छम्
श्वः देवालयम् भ्रमामि
अधुना भोजनम् तरिष्यामि
यदा-कदा तरणताले करोमि
अपि विद्यालयम् गच्छामि
  1. ......
  2. ......
  3. ......
  4. ......
  5. ......
4. (ख) (i)Page 110

‘ह्यः - श्वः’ इति प्रयोगेण शृङ्खलां पूरयत -

______ रविवासरः आसीत् ______ सोमवासरः भविष्यति। 

4. (ख) (ii)Page 110

‘ह्यः - श्वः’ इति प्रयोगेण शृङ्खलां पूरयत -

______ बुधवासरः आसीत्, श्वः गुरुवासरः भविष्यति।

4. (ख) (iii)Page 110

‘ह्यः - श्वः’ इति प्रयोगेण शृङ्खलां पूरयत -

______ शुक्रवासरः आसीत्, ______ शनिवासरः भविष्यति।

4. (ख) (iv)Page 110

‘ह्यः - श्वः’ इति प्रयोगेण शृङ्खलां पूरयत -

______ सोमवासरः आसीत्, ______ मङ्गलवासरः भविष्यति।

5. (क)Page 110

उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत - यत्र पुस्तकालयः तत्र पाठकाः।

यत्र पुस्तकालयः तत्र पाठकाः।
..... कृष्णमेघाः ..... वृष्टिः।
..... आम्रवृक्षः ..... कोकिलः।
..... पुष्पाणि ..... भ्रमराः।
..... देवालयः ..... भक्ताः।
5. (ख)Page 111

उदाहरणम् अनुसृत्य अव्ययपदैः संवादं पूरयत -

अध्यापकः भास्करः कोकिलः कदा कूजति?
भास्करः यदा वसन्तागमनं भवति तदा कोकिलः कूजति।
अध्यापकः शोभनम्! कृषकाः कदा नन्दन्ति?
भास्करः ..... सुवृष्टिः भवति ..... कृषकाः नन्दन्ति।
अध्यापकः साधु! तमः कदा नश्यति?
भास्करः ..... भानुः उदयति, ..... तमः नश्यति।
अध्यापकः अतिशोभनम्! मयूराः कदा नृत्यन्ति?
भास्करः ..... मेघाः गर्जन्ति ..... मयूराः नृत्यन्ति।
अध्यापकः सुष्ठु! मेघाः कदा अपसरन्ति?
भास्करः ..... वातः चलति ..... मेघाः अपसरन्ति।
5. (ग) (i)Page 111

‘यावत्-तावत्’ इति युग्मस्य रिक्तस्थानेषु उचितं प्रयोगं कुरुत -

______ दीयते ______ धनस्य सदुपयोगः भवति।

5. (ग) (ii)Page 111

‘यावत्-तावत्’ इति युग्मस्य रिक्तस्थानेषु उचितं प्रयोगं कुरुत -

______ परोपकारः क्रियते ______ शरीरस्य सदुपयोगः।

5. (ग) (iii)Page 111

‘यावत्-तावत्’ इति युग्मस्य रिक्तस्थानेषु उचितं प्रयोगं कुरुत -

______ स्थास्यन्ति गिरयः ______ रामायणी कथा प्रचरिष्यति।

5. (ग) (iv)Page 111

‘यावत्-तावत्’ इति युग्मस्य रिक्तस्थानेषु उचितं प्रयोगं कुरुत -

______ एव मार्जारः प्रविशति ______ सर्वे मूषकाः पलायिताः।

6. (i)Page 112

वाक्यपरिवर्तनं कुरुत -

बालकः पथि न क्रीडेत्।

पथि ..... क्रीड। 

6. (ii)Page 112

वाक्यपरिवर्तनं कुरुत -

छात्राः कक्षायाम् उच्चैः न वदेयुः।

छात्राः! कक्षायाम् उच्चैः ..... वदत।

6. (iii)Page 112

वाक्यपरिवर्तनं कुरुत -

रवीन्द्रः दीर्घसूत्री न भवेत्।

रवीन्द्र! दीर्घसूत्री ..... भव।

6. (iv)Page 112

वाक्यपरिवर्तनं कुरुत -

सः कदापि पर्युषितम् अन्नं न खादेत्।

पर्युषितम् अन्नं ..... खाद।

7.Page 112

अधुना ‘इव’ अव्ययस्य प्रयोगेण अधोलिखितपदानां समुचितमेलनं क्रियताम् -

नरः चन्द्रः यथा - नरः व्याघ्रः इव
करः कमलम्   ... ... ...
मुखम् पल्लवः   ... ... ...
चरणम् व्याघ्रः   ... ... ...
8.Page 112

“इति” अव्ययस्य प्रयोगः। 

उदाहरणम् - तैत्तिरीयोपनिषद् आदिशति - ‘सत्यं वद, धर्मं चर’ इति। एवमेव ‘इति’ अव्ययस्य प्रयोगं कृत्वा अस्यां मञ्जूषायां प्रदत्तान् वाक्यांशान् ग्रन्थैः सह योजयत। 

  1. ......
  2. ......
  3. ......
  4. ......
9.Page 112

अधोलिखितेषु हास्यालापेषु अव्ययपदानि रेखाङ्कितानि कृत्वा अधः लिखत।

(i) याचकः - श्रेष्ठिन्! एकं पणं देहि।

श्रेष्ठी - अत्र कोऽपि मानवः न अस्ति।

याचकः - कृपया त्वम् एव अस्मिन् समये मानवः भव।

(ii) अनिलः - राजेश! नूनम् आवां मित्रे स्वः। जानासि किं मित्रस्य लक्षणम्?

राजेशः - सम्यक् जानामि।

अनिलः - तर्हि मदर्थं त्वं किं किं कर्तुं समर्थोऽसि?

राजेशः - अहं त्वदर्थं मृत्युनापि योद्धुं सज्जोऽस्मि।

(सहसा व्याघ्रः दृष्टिपथे समायाति)

अनिलः - रे वीर! रक्ष माम्, एष व्याघ्रः मां खादति।

राजेशः - अरे! मया मृत्युना योद्धुं कथितं न तु व्याघ्रेण।

अव्ययानि- ... ... ... ... ... ... ... ... ... ... ... ... ... ... 

10. (i)Page 113

अव्ययपदानि रेखाङ्कितानि कुरुत -

अलसस्य कुतः विद्या अविद्यस्य कुतः धनम्।
अधनस्य कुतः मित्रम् अमित्रस्य कुतः सुखम्॥

10. (ii)Page 113

अव्ययपदानि रेखाङ्कितानि कुरुत -

शनैः कन्था शनैः पन्थाः शनैः पर्वतलङ्घनम्।

शनैः विद्या शनैः वित्तम् पञ्चैतानि शनैः शनैः॥

10. (iii)Page 113

अव्ययपदानि रेखाङ्कितानि कुरुत -

त्वमेव माता च पिता त्वमेव,

त्वमेव बन्धुश्च सखा त्वमेव।

त्वमेव विद्या द्रविणं त्वमेव,

त्वमेव सर्वं मम देव देव॥

10. (iv)Page 113

अव्ययपदानि रेखाङ्कितानि कुरुत -

वृथा वृष्टिः समुद्रेषु वृथा तृप्तस्य भोजनम्।

वृथा दानं समर्थस्य वृथा दीपो दिवाऽपि च॥

10. (v)Page 113

अव्ययपदानि रेखाङ्कितानि कुरुत -

यावत् स्थास्यन्ति गिरयः सरितश्च महीतले।

तावद् रामायणी कथा लोकेषु प्रचरिष्यति॥

11. (i)Page 113

उचिताव्ययपदैः रिक्तस्थानानि पूरयत -

कुत्र, तर्हि, कथम्, च, अत्र।

शतयोजनपर्यन्तं शैलानां पारं ______ द्रष्टुं समर्थः भव इति।

11. (ii)Page 113

उचिताव्ययपदैः रिक्तस्थानानि पूरयत -

कुत्र, तर्हि, कथम्, च, अत्र।

अहं यदि तव सन्ततिं न पालयामि ______ कुत्र स्युः पिकाः?

11. (iii)Page 113

उचिताव्ययपदैः रिक्तस्थानानि पूरयत -

कुत्र, तर्हि, कथम्, च, अत्र।

हा! दग्धा मे घोटकाः ______ रक्षणीयाः?

11. (iv)Page 113

उचिताव्ययपदैः रिक्तस्थानानि पूरयत -

कुत्र, तर्हि, कथम्, च, अत्र।

स पापकर्मा ______ गतः? इति न जानीमः।

11. (v)Page 113

उचिताव्ययपदैः रिक्तस्थानानि पूरयत -

कुत्र, तर्हि, कथम्, च, अत्र।

भो, भो बालकाः! कथम् ______ नतोन्नते मार्गे क्रीडथ?

मिश्रितप्रश्ना: [Pages 114 - 116]

CBSE solutions for संस्कृत मणिका द्वितीयो भाग इयत्ता १० * अव्ययानि मिश्रितप्रश्ना: [Pages 114 - 116]

1. (क)Page 114

अधोलिखितपङ्क्तिषु अव्ययपदानि रेखाङ्कितानि कुरुत -

अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारति।

1. (ख)Page 114

अधोलिखितपङ्क्तिषु अव्ययपदानि रेखाङ्कितानि कुरुत -

न चन्दनरसः न शीतला छाया च पुरुषं प्रह्लादयति।

1. (ग)Page 114

अधोलिखितपङ्क्तिषु अव्ययपदानि रेखाङ्कितानि कुरुत -

अथ एकदा भगवान् बोधिसत्त्वः शिवीनां राजा जातः। 

1. (घ)Page 114

अधोलिखितपङ्क्तिषु अव्ययपदानि रेखाङ्कितानि कुरुत -

सः बाल्यात् एव शास्त्रपारङ्गतः आसीत्।

1. (ङ)Page 114

अधोलिखितपङ्क्तिषु अव्ययपदानि रेखाङ्कितानि कुरुत -

तत्र अर्थिनां समूहः अभीष्टवस्तूनि प्राप्नोत्।

2. (क)Page 114

मञ्जूषापदसहायतया उचिताव्ययपदैः रिक्तस्थानानि पूरयत -

अपि, एव, यदि, इव, नूनम्।

______ भवान् प्रीतः तदा त्वतः एकस्य चक्षुषः दानम् इच्छामि।

2. (ख)Page 114

मञ्जूषापदसहायतया उचिताव्ययपदैः रिक्तस्थानानि पूरयत -

अपि, एव, यदि, इव, नूनम्।

______ ईदृशं दानम् इच्छन् अयं केनापि प्रेरितः स्यात्।

2. (ग)Page 114

मञ्जूषापदसहायतया उचिताव्ययपदैः रिक्तस्थानानि पूरयत -

अपि, एव, यदि, इव, नूनम्।

सः याचकः ______ तत् नेत्रं यथास्थानम् अस्थापयत्।

2. (घ)Page 114

मञ्जूषापदसहायतया उचिताव्ययपदैः रिक्तस्थानानि पूरयत -

अपि, एव, यदि, इव, नूनम्।

राजा नीलोत्पलम् ______ एकं चक्षुः प्रीत्या अयच्छत्। 

2. (ङ)Page 114

मञ्जूषापदसहायतया उचिताव्ययपदैः रिक्तस्थानानि पूरयत -

अपि, एव, यदि, इव, नूनम्।

अलम् एतावता दुस्साहसेन प्रभूतं धनम् ______ दीयताम्।

3. (क)Page 114

मञ्जूषायाः उचिताव्ययानि चित्वा रिक्तस्थानपूर्तिं कुरुत -

वृथा, तर्हि, शनैः, च, इति।

राजा एकं चक्षुः ______ अक्षतम् उत्पाट्य प्रीत्या याचकाय समर्पितवान्।

3. (ख)Page 114

मञ्जूषायाः उचिताव्ययानि चित्वा रिक्तस्थानपूर्तिं कुरुत -

वृथा, तर्हि, शनैः, च, इति।

शतयोजनपर्यन्तं शैलानां पारं च द्रष्टुं समर्थः भव ______ उक्त्वा शक्रः अन्तर्हितः अभवत्। 

3. (ग)Page 114

मञ्जूषायाः उचिताव्ययानि चित्वा रिक्तस्थानपूर्तिं कुरुत -

वृथा, तर्हि, शनैः, च, इति।

अस्य याच्ञा ______ मा अस्तु इति राजा अमात्यान् अकथयत्।

3. (घ)Page 114

मञ्जूषायाः उचिताव्ययानि चित्वा रिक्तस्थानपूर्तिं कुरुत -

वृथा, तर्हि, शनैः, च, इति।

सरस्तीरे राजहंसः हंसी ______ विहरतः।

3. (ङ)Page 114

मञ्जूषायाः उचिताव्ययानि चित्वा रिक्तस्थानपूर्तिं कुरुत -

वृथा, तर्हि, शनैः, च, इति।

यदि अहं कृष्णवर्णः ______ श्रीरामस्य वर्णः कीदृशः?

4. (क)Page 114

मञ्जूषापदसहायतया रिक्तस्थानानि पूरयत -

इव, अधुना, तु, तदा, अपि।

बकः अविचलं ध्यानमग्नः ‘स्थितप्रज्ञः’ ______ तिष्ठति।

4. (ख)Page 114

मञ्जूषापदसहायतया रिक्तस्थानानि पूरयत -

इव, अधुना, तु, तदा, अपि।

मयूरस्य केकारवं श्रुत्वा कोकिलः ______ लज्जते।

4. (ग)Page 114

मञ्जूषापदसहायतया रिक्तस्थानानि पूरयत -

इव, अधुना, तु, तदा, अपि।

यदा कोकिलः पञ्चमस्वरेण गायति ______ श्रोतारः मन्त्रमुग्धा इव भवन्ति।

4. (घ)Page 114

मञ्जूषापदसहायतया रिक्तस्थानानि पूरयत -

इव, अधुना, तु, तदा, अपि।

______ रमणीया हि सृष्टिरेषा जगत्पतेः।

4. (ङ)Page 114

मञ्जूषापदसहायतया रिक्तस्थानानि पूरयत -

इव, अधुना, तु, तदा, अपि।

एतत् कार्यं ______ कुक्कुटोऽपि करोति।

5. (क)Page 115

अव्ययपदानि अधोलिखितवाक्येषु रेखाङ्कितानि कुरुत -

जिह्वालोलुपः मेघः महानसं प्रविश्य यत् पश्यति तद् भक्षयति।

5. (ख)Page 115

अव्ययपदानि अधोलिखितवाक्येषु रेखाङ्कितानि कुरुत -

अहं तु वनं गच्छामि।

5. (ग)Page 115

अव्ययपदानि अधोलिखितवाक्येषु रेखाङ्कितानि कुरुत -

अन्यस्मिन् अहनि स मेघो यावत् महानसं प्रविशति तावत् सूपकारेण अर्धज्वलितकाष्ठेन ताडितः।

5. (घ)Page 115

अव्ययपदानि अधोलिखितवाक्येषु रेखाङ्कितानि कुरुत -

ज्वालमालाकुलाः अश्वाः प्राणत्राणाय इतस्ततः अधावन्। 

5. (ङ)Page 115

अव्ययपदानि अधोलिखितवाक्येषु रेखाङ्कितानि कुरुत -

तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम्।

6. (क)Page 115

मञ्जूषातः उचिताव्ययपदानि चित्वा रिक्तस्थानानि पूरयत -

एकदा, इव, च, यदि, यावत्।

पुत्रशोकसन्तप्ताः युधिष्ठिरः, भीमः द्रौपदी ______ रणभूमौ प्रविशन्ति।

6. (ख)Page 115

मञ्जूषातः उचिताव्ययपदानि चित्वा रिक्तस्थानानि पूरयत -

एकदा, इव, च, यदि, यावत्।

अग्निः ______ दहति मामयं शोकः। 

6. (ग)Page 115

मञ्जूषातः उचिताव्ययपदानि चित्वा रिक्तस्थानानि पूरयत -

एकदा, इव, च, यदि, यावत्।

______ असौ क्रूरकर्मा न दण्ड्यते तावत् अहम् इतः न गमिष्यामि। 

6. (घ)Page 115

मञ्जूषातः उचिताव्ययपदानि चित्वा रिक्तस्थानानि पूरयत -

एकदा, इव, च, यदि, यावत्।

______ ब्रह्मास्त्रं प्रयुज्यते तर्हि सर्वा पृथ्वी दग्धा स्यात्। 

6. (ङ)Page 115

मञ्जूषातः उचिताव्ययपदानि चित्वा रिक्तस्थानानि पूरयत -

एकदा, इव, च, यदि, यावत्।

सः ______ द्वारकापुरीम् आगच्छत्।

7. (क)Page 115

मञ्जूषापदसहायतया रिक्तस्थानानि पूरयत -

इव, सम्प्रति, उच्चैः, मा, यदि। 

प्रिये द्रौपदी! एवं ______ ब्रूयाः। 

7. (ख)Page 115

मञ्जूषापदसहायतया रिक्तस्थानानि पूरयत -

इव, सम्प्रति, उच्चैः, मा, यदि। 

युधिष्ठिरः ‘______ आश्वस्तः अस्मि’ इत्यवदत्।

7. (ग)Page 115

मञ्जूषापदसहायतया रिक्तस्थानानि पूरयत -

इव, सम्प्रति, उच्चैः, मा, यदि। 

______ कश्चित् गर्ते पतेत् तर्हि स विकलाङ्गो भूत्वा चिरं क्लेशम् अनुभवेत्।

7. (घ)Page 115

मञ्जूषापदसहायतया रिक्तस्थानानि पूरयत -

इव, सम्प्रति, उच्चैः, मा, यदि। 

गुरुपदेशेन ______ अनेन बालवचसा मम चक्षुषी समुन्मीलिते।

7. (ङ)Page 115

मञ्जूषापदसहायतया रिक्तस्थानानि पूरयत -

इव, सम्प्रति, उच्चैः, मा, यदि। 

प्रच्छन्नभाग्यः ______ अक्रन्दत्।

8. (क)Page 115

अधोलिखितवाक्येषु अव्ययपदानि रेखाङ्कितानि कुरुत -

इदानीं विषादं त्यक्त्वा उद्यमः क्रियताम्। 

8. (ख)Page 115

अधोलिखितवाक्येषु अव्ययपदानि रेखाङ्कितानि कुरुत -

सखे यदि मां मित्रस्थाने परिगणयसि, तर्हि साधुजनगर्हितम् इमं पन्थानं त्यजतु भवान्।

8. (ग)Page 115

अधोलिखितवाक्येषु अव्ययपदानि रेखाङ्कितानि कुरुत -

प्रच्छन्नभाग्यः श्रमेण शनैः शनैः प्रभूतं धनम् अर्जितवान्।

8. (घ)Page 115

अधोलिखितवाक्येषु अव्ययपदानि रेखाङ्कितानि कुरुत -

अवक्रता यथा चिते तथा वाचि भवेद् यदि।

8. (ङ)Page 115

अधोलिखितवाक्येषु अव्ययपदानि रेखाङ्कितानि कुरुत -

आचारः प्रथमो धर्मः इत्येतद् विदुषां वचः।

8. (च)Page 115

अधोलिखितवाक्येषु अव्ययपदानि रेखाङ्कितानि कुरुत -

न कुर्यादहितं कर्म स परेभ्यः कदापि च।

9. (क)Page 116

मञ्जूषायाः उचिताव्ययपदानि चित्वा रिक्तस्थानानि पूरयत -

अद्य, यत्, अधुना, एव, इति। 

अरुणाचलप्रदेशस्य एकस्मिन् विद्यालये ______ उत्सवस्य वातावरणम्। 

9. (ख)Page 116

मञ्जूषायाः उचिताव्ययपदानि चित्वा रिक्तस्थानानि पूरयत -

अद्य, यत्, अधुना, एव, इति। 

तदा ______ छात्राणाम् एकः दलः तत्र प्रविशति।

9. (ग)Page 116

मञ्जूषायाः उचिताव्ययपदानि चित्वा रिक्तस्थानानि पूरयत -

अद्य, यत्, अधुना, एव, इति।

प्रसीदामि ______ भवन्तः अस्य प्रदेशस्य विषये ज्ञातुम् अति उत्सुकाः।

9. (घ)Page 116

मञ्जूषायाः उचिताव्ययपदानि चित्वा रिक्तस्थानानि पूरयत -

अद्य, यत्, अधुना, एव, इति।

‘वाङ्चो’ जनजातीनां प्रमुखं पर्व ‘ओरिया’ ______ अस्ति।

9. (ङ)Page 116

मञ्जूषायाः उचिताव्ययपदानि चित्वा रिक्तस्थानानि पूरयत -

अद्य, यत्, अधुना, एव, इति।

______ तु वयम् एतानि स्थलानि द्रष्टुम् उत्सुकाः स्मः।

10. (क)Page 116

अधोलिखितवाक्येषु अव्ययपदानि रेखाङ्कितानि कुरुत -

प्राचीनतमा हि एषा गणना।

10. (ख)Page 116

अधोलिखितवाक्येषु अव्ययपदानि रेखाङ्कितानि कुरुत -

एकः कल्प एव ब्रह्मणः एकं दिनं मन्यते।

10. (ग)Page 116

अधोलिखितवाक्येषु अव्ययपदानि रेखाङ्कितानि कुरुत -

अये! कथम् इमं सङ्कल्पं श्रुत्वा विस्मिताः यूयम्?

10. (घ)Page 116

अधोलिखितवाक्येषु अव्ययपदानि रेखाङ्कितानि कुरुत -

सूर्यस्य द्वे गती उत्तरायणं दक्षिणायनञ्च। 

10. (ङ)Page 116

अधोलिखितवाक्येषु अव्ययपदानि रेखाङ्कितानि कुरुत -

षड्ऋतवः एव मे नाभयः।

Solutions for *: अव्ययानि

अव्ययानिमिश्रितप्रश्ना:
CBSE solutions for संस्कृत मणिका द्वितीयो भाग इयत्ता १० chapter * - अव्ययानि - Shaalaa.com

CBSE solutions for संस्कृत मणिका द्वितीयो भाग इयत्ता १० chapter * - अव्ययानि

Shaalaa.com has the CBSE Mathematics संस्कृत मणिका द्वितीयो भाग इयत्ता १० CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. CBSE solutions for Mathematics संस्कृत मणिका द्वितीयो भाग इयत्ता १० CBSE * (अव्ययानि) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. CBSE textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in संस्कृत मणिका द्वितीयो भाग इयत्ता १० chapter * अव्ययानि are .

Using CBSE संस्कृत मणिका द्वितीयो भाग इयत्ता १० solutions अव्ययानि exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in CBSE Solutions are essential questions that can be asked in the final exam. Maximum CBSE संस्कृत मणिका द्वितीयो भाग इयत्ता १० students prefer CBSE Textbook Solutions to score more in exams.

Get the free view of Chapter *, अव्ययानि संस्कृत मणिका द्वितीयो भाग इयत्ता १० additional questions for Mathematics संस्कृत मणिका द्वितीयो भाग इयत्ता १० CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×