Advertisements
Advertisements
प्रश्न
संवादलेखनम्।
रुग्णालयसंवादः
लेखन कौशल्य
Advertisements
उत्तर
| पात्राणि - द्वे (चिकित्सकः, रुग्णः) | |
| रुग्णः | नमो नमः श्रीमान्! |
| चिकित्सकः | नमो नमः! उपविशतु। वदतु, किं कष्टम् अस्ति? |
| रुग्णः | महोदय, ह्यः आरभ्य मम तीव्रः ज्वरः अस्ति। |
| चिकित्सकः | अस्तु, नाडीं पश्यामि। किं शिरोवेदना अपि अस्ति? |
| रुग्णः | आम् श्रीमन्, शरीरे वेदना अस्ति, भोजनस्य इच्छा अपि न भवति। |
| चिकित्सकः | चिन्ता मास्तु, एषः सामान्यः ऋतु-ज्वरः अस्ति। |
| रुग्णः | अहं कदा स्वस्थः भविष्यामि? |
| चिकित्सकः | दिनद्वयेन भवान् स्वस्थः भविष्यति। अहं कानिचन औषधानि लिखामि। |
| रुग्णः | औषधं कथं स्वीकरणीयम्? |
| चिकित्सकः | एषा गुटिका त्रिचतुरवारं भोजनात् परं कोष्णेन जलेन सह स्वीकरणीया। |
| रुग्णः | भोजनविषये कश्चन नियमः अस्ति किम्? |
| चिकित्सकः | आम्, लघुभोजनं करोतु, शीतलं जलं मा पिबतु। विश्रामं कुरु। |
| रुग्णः | धन्यवादः चिकित्सक महोदय! |
| चिकित्सकः | शीघ्रम् आरोग्यं भवतु! |
shaalaa.com
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
