Advertisements
Advertisements
प्रश्न
| रमेशः | राघव! तत्र किं भवति, जानासि किम्? |
| राघवः | न भोः! अहं न ....., चल तत्र गत्वैव पश्यावः। |
| दिनेशः | किं भोः! कुत्र एतावत् शीघ्रं गच्छतम्? |
| रमेशः | न कुत्रापि दूरं, केवलं तत्र ..... यावद् गच्छावः। न जाने किमर्थं तत्र सम्मर्दः दृश्यते। |
| दिनेशः | आम् आम्, सत्यम्। तत्र ..... सम्मर्दः अस्ति, तिष्ठतम् अहमपि चलामि। ममापि द्रष्टुं जिज्ञासा अस्ति। |
| राघवः | आगच्छ मिलित्वा चलामः (त्रयः मिलित्वा अग्रे गच्छन्ति) |
| राधिका | अरे। कुत्र गच्छथ .....? |
| रमेशः | अरे राधिके! वयं तत्र गच्छामः यत्र जनाः ..... सन्ति। परं त्वं कुतः आगच्छसि? |
| राधिका | अरे यूयं न जानीथ, तत्र कश्चन ..... आगतः अस्ति। |
| दिनेशः | ऐन्द्रजालिकः, किं किं करोति सः तत्र? |
| राधिका | अरे! बहुविधं ..... दर्शयति सः। चमत्कारान् दृष्ट्वा आनन्दः एव आगतः। यूयम् अपि गच्छथ। परं धनम् अपि नयथ। |
| राघवः | चिन्ता मास्तु ..... अस्ति मम पार्श्वे। शीघ्रं चल अन्यथा सः गच्छेत्। |
| राधिका | आम् चलत अहमपि धनं स्वीकृत्य .....। |
| सर्वे | शीघ्रम् आगच्छ। तत्र ..... कुर्मः। |
| राधिका | आम् आम्! शीघ्रम् आगमिष्यामि। |
| चमत्कारम्, धनम्, आगच्छेयम्, जानामि, क्रीडाक्षेत्रम्, बहुकालतः, यूयम्, एकत्रिताः, ऐन्द्रजालिकः, प्रतीक्षाम्। |
लेखन कौशल्य
Advertisements
उत्तर
| रमेशः | राघव! तत्र किं भवति, जानासि किम्? |
| राघवः | न भोः! अहं न जानामि, चल तत्र गत्वैव पश्यावः। |
| दिनेशः | किं भोः! कुत्र एतावत् शीघ्रं गच्छतम्? |
| रमेशः | न कुत्रापि दूरं, केवलं तत्र क्रीडाक्षेत्रम् यावद् गच्छावः। न जाने किमर्थं तत्र सम्मर्दः दृश्यते। |
| दिनेशः | आम् आम्, सत्यम्। तत्र बहुकालतः सम्मर्दः अस्ति, तिष्ठतम् अहमपि चलामि। ममापि द्रष्टुं जिज्ञासा अस्ति। |
| राघवः | आगच्छ मिलित्वा चलामः (त्रयः मिलित्वा अग्रे गच्छन्ति) |
| राधिका | अरे। कुत्र गच्छथ यूयम्? |
| रमेशः | अरे राधिके! वयं तत्र गच्छामः यत्र जनाः एकत्रिताः सन्ति। परं त्वं कुतः आगच्छसि? |
| राधिका | अरे यूयं न जानीथ, तत्र कश्चन ऐन्द्रजालिकः आगतः अस्ति। |
| दिनेशः | ऐन्द्रजालिकः, किं किं करोति सः तत्र? |
| राधिका | अरे! बहुविधं चमत्कारम् दर्शयति सः। चमत्कारान् दृष्ट्वा आनन्दः एव आगतः। यूयम् अपि गच्छथ। परं धनम् अपि नयथ। |
| राघवः | चिन्ता मास्तु धनम् अस्ति मम पार्श्वे। शीघ्रं चल अन्यथा सः गच्छेत्। |
| राधिका | आम् चलत अहमपि धनं स्वीकृत्य आगच्छेयम्। |
| सर्वे | शीघ्रम् आगच्छ। तत्र प्रतीक्षाम् कुर्मः। |
| राधिका | आम् आम्! शीघ्रम् आगमिष्यामि। |
shaalaa.com
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
