Advertisements
Advertisements
प्रश्न
मतिवैभवशालिन: दुष्कराणि कार्याणि कथं साधयन्ति?
Advertisements
उत्तर
मतिवैभवशालिनः दुष्कराणि कार्याणि नीति युक्तिं समालम्ब्य लीलया एव साधयन्ति।
संबंधित प्रश्न
कृशकायः कः आसीत्?
कं निकषा मृतशरीरम् आसीत्?
निर्धनः जनः कथं वित्तम् उपार्जितवान्?
जनस्य क्रन्दनं निशम्य आरक्षी किमुक्तवान्?
यथानिर्देशमुत्तरत-
‘आदेश’ प्राप्य उभौ अचलताम्’ अत्र किं कर्तृपदम्?
यथानिर्देशमुत्तरत-
‘एतेन आरक्षिणा अध्वनि यदुक्तं तत् वर्णयामि’-अत्र ‘मार्गे’ इत्यर्थे कि पदं प्रयुक्तम्?
संन्धि/सन्धिविच्छेदं च कुरुत-
पदातिरेव – ______ + ______
संन्धि/सन्धिविच्छेदं च कुरुत-
लीलयैव – ______ + ______
संन्धि/सन्धिविच्छेदं च कुरुत-
यदुक्तम् – ______ + ______
संन्धि/सन्धिविच्छेदं च कुरुत-
प्रबुद्धः + अतिथिः – ______
अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-
स बसयानं विहाय पदातिरेव गन्तुं निश्चयं कृतवान्।
अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-
चौरः ग्रामे नियुक्तः राजपुरुषः आसीत्।
कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
तौ ______ प्रति प्रस्थितौ। (न्यायाधिकारिन् शब्दे द्वितीया)
कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
चौरस्य ______ प्रबुद्धः अतिथिः। (पादध्वनि शब्दे तृतीया)
कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
गृहस्थः ______ आश्रयं प्रायच्छत्। (अतिथिशब्दे चतुर्थी)
कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
________ चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्ड लप्यसे। (इदम् शब्दे सप्तमी)
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत।
| आरक्षी सुपष्टदेह आसीत्, अभियुक्तश्च अतीव कृशकाय:। भारवत: शवस्य स्कन्धेन वहनं तत्कृते दुष्करम् आसीत्। स भारवेदनया क्रन्दति स्म। तस्य क्रन्दनं निशम्य मुदित आरक्षी तमुवाच - "रे दुष्ट! तस्मिन् दिने त्वयाऽहं चोरिताया मञ्जूषाया ग्रहणाद् वारितः। इदानीं निजकृत्यस्य फलं भुङ्क्ष्व। अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे” इति प्रोच्य उच्चै: अहसत्। यथाकथञ्चिद् उभौ शवमानीय एकस्मिन् चत्वरे स्थापितवन्तौ। न्यायाधीशेन पुनस्तौ घटनाया: विषये वक्तुमादिष्टौ। आरक्षिणि निजपक्षं प्रस्तुतवति आश्चर्यम् अघटत् स शव: प्रावारकमपसार्य न्यायाधीशमभिवाद्य निवेदितवान् - मान्यवर! एतेन आरक्षिणा अध्वनि यदुक्तं तद् वर्णयामि 'त्वयाऽहं चोरिताया: मञ्जूषाया: ग्रहणाद् वारितः, अतः निजकृत्यस्य फलं भुङ्क्ष्व।' |
(i) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) 1
(क) सुपष्टदेह: क: आसीत्?
(ख) अभियुक्ताय भारवत: कस्य वहनं दुष्करम् आसीत्?
(ग) कृशकायः क: आसीत्?
(ii) पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम्) 2
(क) आरक्षी अभियुक्तं प्रति दण्डविषये किम् प्रोच्य उच्चै: अहसत्?
(ख) अभियुक्तः कया क्रन्दति स्म?
(ग) उभौ शवम् आनीय कुत्र स्थापितवन्तौ?
(iii) निर्देशानुसारम् उत्तरत। (केवलं प्रश्नद्वयम्) 2
(क) त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे अत्र वाक्ये कर्तृपदं किम्?
(ख) 'चोरिताया:' इति विशेषणपदस्य विशेष्यपदं किम्?
(ग) 'प्रणम्य' इति पदस्य किं पर्यायपदं गद्यांशे प्रयुक्तम्?
