मराठी

मम विद्यालयः दिल्ली महानगरस्य एकः आदर्शः विद्यालयः अस्ति। अस्मिन् विद्यालये एकं प्रमुखं प्रवेशद्वारम् अस्ति। एतत् सिंहद्वारम् कथ्यते, त्रीणि च सहायकानि द्वाराणि सन्ति।

Advertisements
Advertisements

प्रश्न

मम विद्यालयः दिल्ली महानगरस्य एकः आदर्शः विद्यालयः अस्ति। अस्मिन् विद्यालये एकं प्रमुखं प्रवेशद्वारम् अस्ति। एतत् सिंहद्वारम् कथ्यते, त्रीणि च सहायकानि द्वाराणि सन्ति। चत्वारि द्वाराणि केवलं छात्राणां गमनागमनकाले एव अनावृतानि भवन्ति। अस्माकं विद्यालये एकः सुयोग्यः प्रधानाचार्यः द्वौ च तस्य सहायकौ उपप्रधानाचार्यौ स्तः। विविधविषयाणां शताधिकाः शिक्षकाः सन्ति। छात्राणां सङ्ख्या द्विसहस्राधिकाः विद्यते। अत्र तिस्रः विज्ञानप्रयोगशालाः एका च सङ्गणकप्रयोगशाला अस्ति। एवं समस्तानां प्रयोगशालानां सङ्ख्या चतस्रः अस्ति। भाषाणां कृते अपि त्रयः पृथक् विभागाः सन्ति। त्रिषु अपि विभागेषु अनुभविनः शिक्षकाः सन्ति। अयं विद्यालयः द्वादशकक्षापर्यन्तः अस्ति। कतिपयासु कक्षासु पञ्च कतिपयासु च सप्त अनुभागाः सन्ति। प्रति अनुभागं पञ्चाशत् छात्राः सन्ति। एकादशी-द्वादशी च कक्षा त्रिषु विभागेषु विभक्ता अस्ति। तत्र विज्ञान-विभागः वाणिज्य-विभागः कला-विभागः च। अस्मिन् विद्यालये द्वे क्रीडाक्षेत्रे स्तः। एकं वरिष्ठेभ्यः छात्रेभ्यः द्वितीयं च कनिष्ठेभ्यः वर्तते। विद्यालयस्य परिसरे त्रीणि उद्यानानि सन्ति। एकस्मिन् पाटलपुष्पाणां बाहुल्यं विद्यते। द्वयोः च अन्येषां कुसुमानाम्। प्रत्येकम् उद्यानेषु हरितदूर्वाया: हरितिमा जनानां मनांसि हरति। कार्यालये त्रयः लिपिकाः एकश्च कार्यालयस्य अधीक्षकः अस्ति। अधीक्षकेण सर्वकार्यं त्रिषु लिपिकेषु विभक्तं कृतम्। कार्यालयस्य चत्वारः लिपिकाः परस्परं सहयोगेन कार्यं कुर्वन्ति। अत एव अयं विद्यालयः अहर्निशम् उन्नतिपथं गच्छति।

प्रदत्तम् अनुच्छेदम् आश्रित्य अधोलिखितवाक्येषु रिक्तस्थानानां पूर्तिम् उचितसङ्ख्यापदैः कुरुत -

  1. मम विद्यालयः ______ आदर्शः विद्यालयः अस्ति।
  2. अस्मिन् विद्यालये ______ प्रमुखं प्रवेशद्वारम् अस्ति।
  3. ______ सहायकानि द्वाराणि सन्ति।
  4. ______ द्वाराणि केवलं छात्राणां गमनागमनकाले एव अनावृतानि भवन्ति।
  5. अत्र ______ विज्ञानप्रयोगशालाः सन्ति।
  6. विद्यालये ______ सङ्गणकप्रयोगशाला अस्ति।
  7. भाषाणाम् अपि ______ विभागाः सन्ति।
  8. कतिपयासु कक्षासु ______ अनुभागाः, कतिपयासु च ______ अनुभागाः सन्ति।
  9. समस्तप्रयोगशालानां सङ्ख्या ______ अस्ति।
  10. प्रधानाचार्यस्य ______ सहायकौ उपप्रधानाचार्यौ स्तः।
रिकाम्या जागा भरा
Advertisements

उत्तर

  1. मम विद्यालयः एकः आदर्शः विद्यालयः अस्ति।
  2. अस्मिन् विद्यालये एकं प्रमुखं प्रवेशद्वारम् अस्ति।
  3. त्रीणि सहायकानि द्वाराणि सन्ति।
  4. चत्वारि द्वाराणि केवलं छात्राणां गमनागमनकाले एव अनावृतानि भवन्ति।
  5. अत्र तिस्रः विज्ञानप्रयोगशालाः सन्ति।
  6. विद्यालये एका सङ्गणकप्रयोगशाला अस्ति।
  7. भाषाणाम् अपि त्रयः विभागाः सन्ति।
  8. कतिपयासु कक्षासु पञ्च अनुभागाः, कतिपयासु च सप्त अनुभागाः सन्ति।
  9. समस्तप्रयोगशालानां सङ्ख्या चतस्रः अस्ति।
  10. प्रधानाचार्यस्य द्वौ सहायकौ उपप्रधानाचार्यौ स्तः।
shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 12: सङ्ख्या - सङ्ख्या [पृष्ठ १०१]

APPEARS IN

सीबीएसई Sanskrit Manika Dvitiyo Bhag Class 10
पाठ 12 सङ्ख्या
सङ्ख्या | Q (ख) | पृष्ठ १०१
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×