Advertisements
Advertisements
प्रश्न
कोष्ठके प्रदत्तानां धातूनां प्रयोगं कृत्वा रिक्तस्थानं पूरयत-





दक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् आसीत्। तस्य समीपे एकः महान् वटवृक्षः ______ (अस्)। तत्र चित्रग्रीवनामकः कपोतराजः सकुटुम्बः निवसति स्म। एकदा जालतण्डुलहस्तः एकः व्याधः तत्र ______ (आ + गम्) वृक्षस्य अधः जालं ______ (प्र + सारय्)। उपरि च तण्डुलान् ______ (क्षिप्) स्वयमेव समीपे गत्वा निभूतः ______ (स्था)। ततः कपोतशावकाः तण्डुलान् ______ (दृश)। तान् भक्षयितुम् उद्यताः जाले एव बद्धाः ______ (भू)। चित्रग्रीवः स्वपरिवारं बद्धं दृष्ट्वा ______ (वद्) अहो, न भेतव्यम्। यूयं सर्वे मिलित्वा पाशं नीत्वा उत्पतत। तदा सपाशजालाः कपोताः ______ (उत् + पत्)। तस्य वनस्य एकस्मिन् भूभागे चित्रग्रीवस्य सुहृद् हिरण्यकः ______ (वस्)। चित्रग्रीवः कपोतैः सह तस्य बिलसमीपे ______ (अव + तृ) हिरण्यकः तेषां पाशम् ______ (कृन्त)। एवं ते कपोताः पुनः मुक्ताः।
विशेषः - वर्तमानकालिकक्रियापदे ‘स्म’ योजनेन अपि भूतकालिकक्रिया भवति यथा वसति - वसति स्म, करोति - करोति स्म।
Advertisements
उत्तर
दक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् आसीत्। तस्य समीपे एकः महान् वटवृक्षः आसीत्। तत्र चित्रग्रीवनामकः कपोतराजः सकुटुम्बः निवसति स्म। एकदा जालतण्डुलहस्तः एकः व्याधः तत्र आगच्छत् वृक्षस्य अधः जालं प्रासारयत्। उपरि च तण्डुलान् अक्षिपत् स्वयमेव समीपे गत्वा निभूतः अतिष्ठत्। ततः कपोतशावकाः तण्डुलान् अपश्यन्। तान् भक्षयितुम् उद्यताः जाले एव बद्धाः अभवन्। चित्रग्रीवः स्वपरिवारं बद्धं दृष्ट्वा अवदत् अहो, न भेतव्यम्। यूयं सर्वे मिलित्वा पाशं नीत्वा उत्पतत। तदा सपाशजालाः कपोताः उदपतन्। तस्य वनस्य एकस्मिन् भूभागे चित्रग्रीवस्य सुहृद् हिरण्यकः अवसत्। चित्रग्रीवः कपोतैः सह तस्य बिलसमीपे अवातरत् हिरण्यकः तेषां पाशम् अकृन्तत्। एवं ते कपोताः पुनः मुक्ताः।
