मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (इंग्रजी माध्यम) इयत्ता १० वी

गद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत। शिबिरस्य प्रथमदिने एव भोजनादिकं समाप्य मध्याह्वे बालैः सह पत्रक्रीडायां मग्रः आसम्‌ अहम्‌। तदा सद्यः एव परिचितः प्रोफेसर-सर्कसवाले - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

गद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत।

शिबिरस्य प्रथमदिने एव भोजनादिकं समाप्य मध्याह्वे बालैः सह पत्रक्रीडायां मग्रः आसम्‌ अहम्‌। तदा सद्यः एव परिचितः प्रोफेसर-सर्कसवाले (सर्कस-क्रीडारङ्गस्य स्वामी) मामेव अन्विष्यन्‌ तत्र समागतः। “कॅप्टनसाहेब, शृणोतु कॅप्टनसाहेब! अस्माकं सर्कसक्रीडायां कतिपयेभ्यः मासेभ्यः लोकप्रियः सहभोजनकार्यक्रमः प्रचलति। गौः, भल्लूकः व्याघ्रश्च इत्येतेषां पशूनाम्‌ अयं कार्यक्रमः प्रयोगस्य सर्वोच्चम्‌ आकर्षणम्‌ अस्ति। तथा विज्ञापनं कृत्वा प्रवेशपत्राणि अपि विक्रीतानि। परन्तु व्याघ्रभल्लूकयोः कलहकारणात्‌ द्वावपि व्रणितौ।” “किं प्राणिनोः कलहः?” “महाशय, अस्माकं सर्कसक्रीडायां तु व्याघ्रभल्लूकौ द्विपादो एव। एवं प्राध्यापकमहाशयेन रहस्यभेदः कृतः। “नास्ति अस्माकं सामर्थ्यं व्याघ्रं वा भल्लूकं वा पालयितुम्‌। क्रीडायां द्वौ बहुरूपधारिणौ नरौ एव व्याघ्रं भल्लूकं च नाटयतः।” “किं धेनुरपि... ?” “नहि नहि, धेनुस्तु वास्तविकी एव।” “हंऽऽ... कथयतु तर्हि किं मया करणीयम्‌ अत्र?” “अहं प्रार्थये यत्‌ भवतः बालवीरचमूतः कौ अपि द्वौ सैनिकौ अद्यतनक्रीडायां यदि व्याघ्रभल्लूकवेषौ धृत्वा प्रेक्षकाणां मनोरञ्जनं कुर्यातां तर्हि महान्‌ उपकारः स्यात्‌। कृपया साहाय्यं करोतु।”

(१) अववबोधनम्‌। (४ तः ३)    ३

(क) उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।

(१) तथा विज्ञापनं कृत्वा ______ विक्रीतानि। (प्रवेशपत्राणि/पिहितपत्राणि)

(२) अस्माकं सर्कसक्रीडायां तु व्याघ्रभल्लूकौ ______ एव। (चतुष्पादौ/द्विपादौ)

(ख) कः कं वदति।

“किं प्राणिनोः कलहः?”

(ग) पूर्णवाक्येन उत्तरं लिखत।

चिमणरावः कस्यां मग्रः?

(घ) अमरकोषात्‌ शब्दं योजयित्वा वाक्यं पुनर्लिखत।

धेनुः तु वास्तविकी एव।

(२) शब्दज्ञानम्‌। (३ तः २)       २

(क) पूर्वपदं लिखत।

(१) व्याघ्रश्च = ------ + च

(२) द्वावपि = ------ + अपि।

(ख) विशेषण-विशेष्ययो मेलनं कुरुत।

‘अ’ ‘आ’
(१) सर्वोच्चम्‌  नरौ
(२) बहुरूपधारिणौ सैनिकौ
  आकर्षणम्‌

(ग) गद्यांशात्‌ २ पूर्वकालवाचक-त्वान्त-अव्यये चित्वा लिखत।

(३) पृथक्करणम्‌।            २

क्रमेण योजयत।

  1. शिबिरस्य प्रथमं दिनम्‌।
  2. सर्कसस्वामिनः साहाय्ययाचना।
  3. सहभोजनस्य रहस्यभेदः।
  4. सर्कसस्वामिनः आगमनम्‌।
आकलन
Advertisements

उत्तर

(१) 

(क) 

(१) तथा विज्ञापनं कृत्वा प्रवेशपत्राणि विक्रीतानि। 

(२) अस्माकं सर्कसक्रीडायां तु व्याघ्रभल्लूकौ द्विपादौ एव। 

(ख) इति/एतद्‌ चिमणरावः सर्कसस्वामिनं वदति।

(ग) चिमणरावः पत्रक्रीडायां मग्रः।

(घ) माहेयी/सौरभेयी/गौः/उस्त्रा/माता/शृङ्गिणी तु वास्तविकी एव।

(२)

(क) 

(१) व्याघ्रश्च = व्याघ्रः + च

(२) द्वावपि = द्वौ + अपि।

(ख) 

‘अ’ ‘आ’
(१) सर्वोच्चम्‌  आकर्षणम्‌
(२) बहुरूपधारिणौ नरौ

(ग) 

  1. कृत्वा 
  2. धृत्वा 

(३) 

  1. शिबिरस्य प्रथमं दिनम्‌।
  2. सर्कसस्वामिनः आगमनम्‌।
  3. सहभोजनस्य रहस्यभेदः।
  4. सर्कसस्वामिनः साहाय्ययाचना।
shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2022-2023 (July) Official
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×