Advertisements
Advertisements
प्रश्न
भवान् योगेशः। भवतः विद्यालये एकं संस्कृत-सम्भाषणशिविरम् आयोजितम् आसीत्। तस्य वर्णनं कुर्वन् मित्रं प्रति अधोलिखितं पत्रं मञ्जूषायां प्रदत्तशब्दैः पूरयित्वा पुस्तिकायां लिखत।
राजकीय-संस्कृत-विद्यालयः,
गुरुग्रामतः।
तिथिः - .....।
प्रिय मित्र (i) .....!
सस्नेहं नमस्ते।
अत्र कुशलं तत्रास्तु। गतसप्ताहे अस्माकं (ii) ..... संस्कृत-सम्भाषणशिविरम् (iii) ..... आसीत्। दशदिनानि यावत् वयं संस्कृत-सम्भाषणस्य (iv) ..... अकुर्म। तत्र वयं पर्यावरणसंरक्षणम् इति विषयम् अधिकृत्य एकस्याः लघु नाटिकायाः (v) ..... अपि अकुर्म। दर्शकाः अस्माकम् अभिनयस्य अतीव (vi) ..... अकुर्वन्। अहं तु इदानीं सर्वदा संस्कृतेन एव (vii) .....। भवान् अपि संस्कृत-सम्भाषणाय प्रयासं (viii) .....।
मित्र! संस्कृत-सम्भाषणं कठिनं नास्ति। निरन्तरम् अभ्यासेन भवान् सरलतया एव (ix) ..... समर्थः भविष्यति। पितरौ (x) ..... मम प्रणामाञ्जलिं निवेदयतु।
भवतः मित्रम्,
योगेशः
मञ्जूषा:
| मञ्चनम्, प्रति, प्रशंसाम्, वैभव, वदामि, विद्यालये, करोतु, आयोजितम्, सम्भाषणे, अभ्यासम्। |
Advertisements
उत्तर
राजकीय-संस्कृत-विद्यालयः,
गुरुग्रामतः।
तिथिः - 27-10-2026
प्रिय मित्र (i) वैभव!
सस्नेहं नमस्ते।
अत्र कुशलं तत्रास्तु। गतसप्ताहे अस्माकं (ii) विद्यालये संस्कृत-सम्भाषणशिविरम् (iii) आयोजितम् आसीत्। दशदिनानि यावत् वयं संस्कृत-सम्भाषणस्य (iv) अभ्यासम् अकुर्म। तत्र वयं पर्यावरणसंरक्षणम् इति विषयम् अधिकृत्य एकस्याः लघु नाटिकायाः (v) मञ्चनम् अपि अकुर्म। दर्शकाः अस्माकम् अभिनयस्य अतीव (vi) प्रशंसाम् अकुर्वन्। अहं तु इदानीं सर्वदा संस्कृतेन एव (vii) वदामि। भवान् अपि संस्कृत-सम्भाषणाय प्रयासं (viii) करोतु।
मित्र! संस्कृत-सम्भाषणं कठिनं नास्ति। निरन्तरम् अभ्यासेन भवान् सरलतया एव (ix) सम्भाषणे समर्थः भविष्यति। पितरौ (x) प्रति मम प्रणामाञ्जलिं निवेदयतु।
भवतः मित्रम्,
योगेशः
