मराठी

अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत। (ततः पुत्रशोकसन्तप्ताः युधिष्ठिरः भीमः द्रौपदी च रणभूमौ प्रविशन्ति।) द्रौपदी - (दीर्घं निःश्वस्य) हा हन्त। - Sanskrit (Communicative)

Advertisements
Advertisements

प्रश्न

अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत।

(ततः पुत्रशोकसन्तप्ताः युधिष्ठिरः भीमः द्रौपदी च रणभूमौ प्रविशन्ति।)

द्रौपदी - (दीर्घं निःश्वस्य) हा हन्त। किम्‌ इदं घोरम्‌ आपतितम्‌। पापकर्मणा द्रौणिना मे पुत्राः भ्रातरः च हताः। अग्निः इव दहति माम्‌ अयं शोकः।

युधिष्ठिरः - शुभे! धैर्यं धारय। नूनं तव पुत्राः वीरगतिम्‌ एव प्राप्ताः। वीरजननी त्वं शोचितुं न अर्हसि।

द्रौपदी - कथं मन्दभाग्या अहं धैर्यं धारयामि। यावत्‌ असौ क्रूरकर्मा न दण्ड्यते, तावत्‌ अहम्‌ इतः न गमिष्यामि, अत्रैव प्राणत्यागं च करिष्यामि।

युधिष्ठिरः - प्रिये! मा एवं ब्रूयाः। स पापकर्मा कुत्र गतः इति न जानीमः। अतिदूरं किञ्चिद्‌ दुर्गमवनं प्रविष्टः भवेत्‌।

द्रौपदी - (भीमं प्रति) आर्यपुत्र! क्षत्रधर्मम्‌ अनुस्मरन्‌ मां शोकसागरात्‌ रक्ष। अस्मिन्‌ संसारे कश्चित्‌ अपि त्वया सदृशः पराक्रमी नास्ति। पुरा वारणावते त्वमेव पाण्डवान्‌ रक्षितवान्‌। विराट-नगरे अपि त्वं मां प्राणसङ्कटात्‌ उद्धृतवान्‌।

भीमः - (युधिष्ठिरं प्रति) भ्रातः! द्रौणिम्‌ अनुगन्तुं मह्यम्‌ अनुमतिं ददातु भवान्‌।

युधिष्ठिरः - गच्छ वत्स! विजयी भव, नकुलः तव सारथिः भवतु। (भीमसेनः निर्गच्छति, श्रीकृष्णः अर्जुनेन सह प्रविशति।)

अ. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्‌)        1

  1. का आत्मानं मन्दभाग्या इति कथयति?
  2. पुरा कुत्र भीमः पाण्डवान्‌ रक्षितवान्‌?
  3. युधिष्ठिरः भीमः द्रौपदी कुत्र प्रविशन्ति?

आ. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्‌)      2

  1. द्रौपदी दीर्घं निःश्वस्य किं कथयति?
  2. भीमः कदा पाण्डवान्‌ रक्षितवान्‌?
  3. भीमः किमर्थम्‌ अनुमतिम्‌ इच्छति?

इ. निर्देशानुसारम्‌ उत्तरत - (केवलं प्रश्नद्वयम्‌)     2

  1. 'निर्गच्छति' इत्यस्य किं विपर्यय-पदम्‌ अत्र प्रयुक्तम्‌?
  2. 'श्रीकृष्णः अर्जुनेन सह प्रविशति।' अत्र कर्तृपदं किम्‌ प्रयुक्तम्‌?
  3. 'घोरम्‌ आपतितम्‌' अनयोः पदयोः विशेषणपदं किम्‌?
एका वाक्यात उत्तर
एक शब्द/वाक्यांश उत्तर
Advertisements

उत्तर

अ.

  1. द्रौपदी
  2. वारणावते
  3. रणभूमौ

आ.

  1. द्रौपदी दीर्घं निःश्वस्य कथयति- हा हन्त। किम्‌ इदं घोरम्‌ आपतितम्‌, पापकर्मणा द्रौणिना मे पुत्राः भ्रातरः च हताः। अग्निः इव दहति माम्‌ अयं शोकः।
  2. भीमः वारणावते पाण्डवान्‌ रक्षितवान्‌।
  3. भीमः द्रौणिम्‌ अनुगन्तुम्‌ अनुमतिम्‌ इच्छति।

इ.

  1. प्रविशति
  2. श्रीकृष्णः
  3. घोरम्‌
shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×