मराठी

अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रशनानाम्‌ उत्तराणि संस्कृतेन लिखत - अस्ति देउलाख्यो ग्रामः। तत्र राजसिंहः नाम राजपुत्रः वसति स्म। एकदा केनापि आवश्यककार्येण तस्य भार्या बुद्धिमती - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रशनानाम्‌ उत्तराणि संस्कृतेन लिखत -

अस्ति देउलाख्यो ग्रामः। तत्र राजसिंहः नाम राजपुत्रः वसति स्म। एकदा केनापि आवश्यककार्येण तस्य भार्या बुद्धिमती पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता। मार्गे गहनकानने सा एकं व्याघ्रं ददर्श। सा व्याघ्रमागच्छन्तं दृष्ट्वा धाष्ट्रयात्‌ पुत्रौ चपेटया प्रहृत्य जगाद - “कथमेकैकशो व्याघ्रभक्षणाय कलहं कुरुथः? अयमेकस्तावद्विभज्य भुज्यताम्‌। पश्चाद्‌ अन्यो द्वितीयः कश्चिल्लक्षयते।”

(i) एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्‌)    1

(क) राजसिंहः कुत्र वसति स्म?

(ख) बुद्धिमती पुत्रद्वयोपेता कुत्र चलिता?

(ग) सा कुत्र एकं व्याघ्रं ददर्श?

(ii) पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्‌)   2

(क) सा पुत्रौ चपेटया प्रहृत्य किम्‌ जगाद?

(ख) एकदा का पितुः गृहं प्रति चलिता?

(ग) बुद्धिमती किमर्थं पितुर्गृहं प्रति चलिता?

(iii) भाषिककार्यम्‌ - (केवलं प्रश्नद्वयम्‌)    2

(क) ‘जगाद’ इति क्रियापदस्य कर्तृपदं किम्‌?

(ख) ‘व्याघ्रम्‌’ इति पदस्य विशेषणपदं किम्‌?

(ग) अनुच्छेदे ‘अपश्यत्‌’ इत्यस्य पदस्य कः पर्यायः प्रयुक्तः?

आकलन
Advertisements

उत्तर

(i) 

(क) देउलाख्यो ग्रामे।

(ख) पितुर्गृहं प्रति।

(ग) मार्गे गहनकानने।

(ii) 

(क) सा पुत्रौ चपेटया प्रहृत्य जगाद यत्‌ कथमेकैकशो व्याघ्रभक्षणाय कलहं कुरुथः?

(ख) एकदा बुद्धिमती पितुर्गृहं प्रति चलिता।

(ग) सा केनापि आवश्यककार्येण पितुर्गृहं प्रति चलिता।

(iii) 

(क) सा (बुद्धिमती)

(ख) एकम्‌ (विशेषण पदम्‌)

(ग) ददर्श इति पर्यायः प्रयुक्तः।

shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2024-2025 (March) Official
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×