Advertisements
Advertisements
प्रश्न
अधोलिखितां कथां मञ्जूषापदैः रिक्तस्थानानि पूरयित्वा पुनः लिखत:
भूपतेः (i) ______ पुत्राः वानरान् भोज्यपदार्थैः पुष्टिं नयन्ति स्म। राजगृहे बालवाहनयोग्यः मेषः जिह्वालोलुपतया (ii) ______ प्रविश्य भोजनं खादति स्म। सूपकारैः नित्यं ताडितं मेषं दृष्ट्वा (iii) ______ वानरान् राजभवनं त्यक्तुम् अकथयत्। (iv) ______ मदोद्धताः मर्कटाः तद् राजभवनं त्यक्तुं न स्वीकृतवन्तः। अन्यस्मिन् अहनि स मेषः (v) ______ अर्धज्वलितकाष्ठेन ताडितः। ज्वलन् स मेषः (vi) ______ प्रविष्टः। परिणामतः दग्धाः (vii) ______ प्राणत्राणाय अधावन्। राजा राजवैद्यम् आहूय अश्वरक्षायै न्यवेदयत्। भयत्रस्ताः कपयः गुरुजनोपदेशस्य अवधीरणातः (viii) ______ कृतवन्तः।
मञ्जुषा
| अश्वाः, वानरयूथपः, पश्चात्तापम्, अश्वशालाम्, रसनास्वादलुब्धाः, चन्द्रस्य, सूपकारेण, महानसम्। |
Advertisements
उत्तर
भूपतेः (i) चन्द्रस्य पुत्राः वानरान् भोज्यपदार्थैः पुष्टिं नयन्ति स्म। राजगृहे बालवाहनयोग्यः मेषः जिह्वालोलुपतया (ii) महानसम् प्रविश्य भोजनं खादति स्म। सूपकारैः नित्यं ताडितं मेषं दृष्ट्वा (iii) वानरयूथपः वानरान् राजभवनं त्यक्तुम् अकथयत्। (iv) रसनास्वादलुब्धाः मदोद्धताः मर्कटाः तद् राजभवनं त्यक्तुं न स्वीकृतवन्तः। अन्यस्मिन् अहनि स मेषः (v) सूपकारेण अर्धज्वलितकाष्ठेन ताडितः। ज्वलन् स मेषः (vi) अश्वशालाम् प्रविष्टः। परिणामतः दग्धाः (vii) अश्वाः प्राणत्राणाय अधावन्। राजा राजवैद्यम् आहूय अश्वरक्षायै न्यवेदयत्। भयत्रस्ताः कपयः गुरुजनोपदेशस्य अवधीरणातः (viii) पश्चात्तापम् कृतवन्तः।
