Advertisements
Advertisements
प्रश्न
अधोलिखिताः कथाः मञ्जूषायाः सहायतया पूरयित्वा उत्तर-पुस्तिकायां लिखत -
एषः समुद्रतटः। अत्र जनाः (1) ..... आगच्छन्ति। केचन तरङ्गैः क्रीडन्ति केचन च (2) ..... जलविहारं कुर्वन्ति। तेषु केचन कन्दुकेन (3) .....। बालिकाः बालकाः च बालुकाभिः (4) ..... रचयन्ति। मध्ये मध्ये तरङ्गाः बालुकागृहं प्रवाहयन्ति। एषा क्रीडा प्रचलति एव। (5) ..... न केवलं पर्यटन-स्थानानि एव सन्ति अपितु अत्र मत्स्यजीविनः अपि स्वजीविकां चालयन्ति। अस्माकं देशे (6) ..... समुद्रतटाः सन्ति। एतेषु मुम्बई-गोवा-कोच्चि-कन्याकुमारी-विशाखापत्तनम्-पुरी इत्येताः प्रमुखाः समुद्रतटाः (7) ..... प्रसिद्धाः सन्ति। गोवातटः वैदेशिक-पर्यटकेभ्यः समधिकं रोचते। विशाखापत्तनम् इति (8) ..... वैदेशिक-व्यापाराय (9) ..... अस्ति। कोच्चितटः नारिकेल-फलेभ्यः ज्ञायते। मुम्बई-नगरस्य जुहू-तटे सर्वे (10) ..... स्वैरं विहरन्ति। चेन्नई-नगरस्य मेरीना-तटः देशस्य सागर-तटेषु दीर्घतमः अस्ति।
| प्रसिद्धः, जनाः, बहवः, क्रीडन्ति, नौकाभिः, बालुकागृहम्, पर्यटनाय, अतीव, तटः, समुद्रतटाः। |
Advertisements
उत्तर
एषः समुद्रतटः। अत्र जनाः (1) बहवः आगच्छन्ति। केचन तरङ्गैः क्रीडन्ति केचन च (2) नौकाभिः जलविहारं कुर्वन्ति। तेषु केचन कन्दुकेन (3) क्रीडन्ति। बालिकाः बालकाः च बालुकाभिः (4) बालुकागृहम् रचयन्ति। मध्ये मध्ये तरङ्गाः बालुकागृहं प्रवाहयन्ति। एषा क्रीडा प्रचलति एव। (5) समुद्रतटाः न केवलं पर्यटन-स्थानानि एव सन्ति अपितु अत्र मत्स्यजीविनः अपि स्वजीविकां चालयन्ति। अस्माकं देशे (6) बहवः समुद्रतटाः सन्ति। एतेषु मुम्बई-गोवा-कोच्चि-कन्याकुमारी-विशाखापत्तनम्-पुरी इत्येताः प्रमुखाः समुद्रतटाः (7) अतीव प्रसिद्धाः सन्ति। गोवातटः वैदेशिक-पर्यटकेभ्यः समधिकं रोचते। विशाखापत्तनम् इति (8) तटः वैदेशिक-व्यापाराय (9) प्रसिद्धः अस्ति। कोच्चितटः नारिकेल-फलेभ्यः ज्ञायते। मुम्बई-नगरस्य जुहू-तटे सर्वे (10) जनाः स्वैरं विहरन्ति। चेन्नई-नगरस्य मेरीना-तटः देशस्य सागर-तटेषु दीर्घतमः अस्ति।
