हिंदी

नाट्यांशं पठित्वा निर्दिष्टे कृती कुरुत। (तत: प्रविशति यमदूत:) यमदूत: (आत्मगतम्) यमदूतोऽहम्। क्षीणायुषां प्राणिनां प्राणान् हर्तुं यमेन प्रेषित:। उक्त: च 'गणिकाया: वसन्तसेनाया: प्राणान् अपहर' इति। - Sanskrit

Advertisements
Advertisements

प्रश्न

नाट्यांशं पठित्वा निर्दिष्टे कृती कुरुत।

  (तत: प्रविशति यमदूत:)
यमदूत:  (आत्मगतम्) यमदूतोऽहम्। क्षीणायुषां प्राणिनां प्राणान् हर्तुं यमेन प्रेषित:। उक्त: च 'गणिकाया: वसन्तसेनाया: प्राणान् अपहर' इति। इयं सा वसन्तसेना।
गणिका मधुकरिके, पश्य, दर्शनीय: अशोककिसलय:। एनं गृह्णामि। (तथा करोति)
यमदूत: अयं स काल:। यावत् सर्पो भूत्वा, अशोककोटरे स्थित्वा, दष्ट्वा विषवेगेण प्राणान् हरामि। (तथा करोति)
गणिका
हम्, केनापि दष्टाऽस्मि। (भूमौ पतति।)
सखी अज्जुके, अयं स: अशोककोटरात् निर्गत: कालसर्प:। परित्रायतां परित्रायताम्।
शाण्डिल्य: अविधा, भगवन्, परित्रायताम्। परित्यजति खलु प्राणान् एषा अज्जुका।
परिव्राजक: वासांसि जीर्णानि यथा विहाय ....
शाण्डिल्य:  अलं तत्त्वज्ञानप्रवचनेन। शीघ्रं कोऽपि उपाय: चिन्त्यताम्। हा हन्त, मृता खलु एषा। (रोदिति।)
परिव्राजक: (विचिन्त्य) शाण्डिल्य, अलं रोदनेन। अस्माभि: संन्यासिभि: न शोक: करणीय:।
शाण्डिल्य: आ: अपेहि नि:स्नेह! मन्ये, निष्फलं ते योगसामर्थ्यं यदि अस्या: शरीरे पुन: प्राणसञ्चारं कारयितुं न शक्नोषि।
परिव्राजक: 
किम् आह। मम योगसामर्थ्यं निष्फलमिति। पश्य इदानीम्। (आत्मगतम्) अस्या: गणिकाया: शरीरे मम प्राणान् स्थापयामि। (मन्त्रं पठित्वा तथा करोति)

(१) अवबोधनम् । (३ तः २)   2

(i) उचितं वाक्याशं चित्वा वाक्यं पुनर्लिखत।

यमदूत: गणिकाया: प्राणहरणार्थम् .........।

(अ) अशोककोटरे सर्प: भूत्वा तिष्ठति।

(ब) अशोककोटरे मधुमक्षिका भूत्वा तिष्ठति।

(ii) उचितं शब्दं चित्वा चतुष्कोणं पूरयत।
कालसर्पस्य निर्गमनस्थानम् − .........

(iii) वाक्यं पुनर्लिखित्वा सत्यम्/असत्यं लिखत।
परिव्राजक: वदति - ‘अस्माभि: संन्यासिभि: शोक: करणीय:।’

(२) पृथक्करणम्।   2

(अ) क्रमेण योजयित्वा वाक्यानि पुनर्लिखत। 

  1. सर्पदंशेन गणिकाया: मृत्यु:।
  2. यमादेशेन यमदूतस्य उद्यानप्रवेश:।
  3. गणिकामृत्युकारणात् शाण्डिल्यस्य शोक:।
  4. यमदूतस्य सर्परूपधारणम्।
आकलन
Advertisements

उत्तर

(१) 

(i) यमदूत: गणिकाया: प्राणहरणार्थम् अशोककोटरे सर्प: भूत्वा तिष्ठति।

(ii) कालसर्पस्य निर्गमनस्थानम् − अशोककोटरम्

(iii) ‘अस्माभि: संन्यासिभि: शोक: करणीय:।’ − असत्यम्

(२)

  1. यमादेशेन यमदूतस्य उद्यानप्रवेशः।
  2. यमदूतस्य सर्परूपधारणम्।
  3. सर्पदंशेन गणिकायाः मृत्युः।
  4. गणिकामृत्युकारणात् शाण्डिल्यस्य शोकः।
shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2025-2026 (March) Official Question Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×