मराठी
महाराष्ट्र राज्य शिक्षण मंडळएचएससी वाणिज्य (इंग्रजी माध्यम) इयत्ता १२ वी

नाट्यांशं पठित्वा निर्दिष्टे कृती कुरुत। (प्रविश्य मृण्मयूरहस्ता) प्रथमा सर्वदमन, शकुन्तलावण्यं प्रेक्षस्व। बाल: (सदृष्टिक्षेपम्) कुत्र वा मम माता? राजा (आत्मगतम्) किं वा शकुन्तलेत्यस्य मातुराख्या? - Sanskrit

Advertisements
Advertisements

प्रश्न

नाट्यांशं पठित्वा निर्दिष्टे कृती कुरुत।

  (प्रविश्य मृण्मयूरहस्ता)
प्रथमा  सर्वदमन, शकुन्तलावण्यं प्रेक्षस्व।
बाल:  (सदृष्टिक्षेपम्) कुत्र वा मम माता?
राजा  (आत्मगतम्) किं वा शकुन्तलेत्यस्य मातुराख्या? सन्ति पुनर्नामधेयसादृश्यानि।
सर्वदमन: रोचते मे एष भद्रमयूर:। (इति क्रीडनकमादत्ते।)
प्रथमा (विलोक्य सोद्वेगम्) अहो, रक्षाकरण्डकमस्य मणिबन्धे न दृश्यते।
राजा अलमलमावेगेन। नन्विदमस्य सिंहशावकविमर्दात् परिभ्रष्टम्। (इत्यादातुमिच्छति।)
उभे मा खल्विदलमवलम्ब्य। कथं गृहीतमनेन! (इति विस्मयात् उरोनिहितहस्ते परस्परम् अवलोकयत:।)
राजा किमर्थं प्रतिषिद्धा: स्म:?
प्रथमा शृणोतु महाराज:। एषाऽपराजिता नामौषधि: भगवता मारीचेन दत्ता। एतां किल मातापितरावात्मानं च वर्जयित्वा अपरो भूमिपतितां न गृह्णाति।
राजा अथ गृह्णाति?
प्रथमा  ततस्तं सर्पो भूत्वा दशति।
राजा
भवतीभ्यां कदाचिदस्याः प्रत्यक्षीकृता विक्रिया?
उभे
अनेकशः। (राजा सहर्षं बालं परिष्वजते।)
सर्वदमनः 
मुञ्च माम्। मम खलु तातो दुष्यन्तः। न त्वम्।
राजा
(सस्मितम्) एष विवाद एव प्रत्याययति।

(१) अवबोधनम् । (३ तः २)   2

(i) उचितं कारणं चित्वा वाक्यं पुनर्लिखत।

तापसीभ्यां राजा रक्षाकरण्डकग्रहणात् प्रतिषिद्धः, यतः − ........

(क) रक्षाकरण्डकं कण्टकितम्।

(ख) अपराजिता ओषधिः सर्पः भूत्वा राजानं दशेत् इति तयोः मनसि भीतिः।

(ii) रेखाङ्कितं पदम् आधृत्य प्रश्ननिर्माणं कुरुत।

इदं सिंहशावकविमर्दात् परिभ्रष्टम्।

(iii) पूर्णवाक्येन उत्तरं लिखत।

तापसी बालकाय क्रीडनकरूपेण किं यच्छति?

(२) शब्दज्ञानम्। (३ तः २)   2

(i) विशेषणविशेष्ययोः मेलनं कुरुत।

प्रत्यक्षीकृता मारीचेन
भगवता दत्ता
  विक्रिया
(ii) नाट्यांशतः पूर्वकालवाचकधातुसाधित - अव्यये चित्वा लिखत।
  1. ........
  2. ........

(iii) तृतीयाविभक्त्यन्तपदे नाट्यांशतः चित्वा लिखत।

  1. ........
  2. ........
आकलन
Advertisements

उत्तर

(१)

(i) तापसीभ्यां राजा रक्षाकरण्डकग्रहणात् प्रतिषिद्धः, यतः − अपराजिता ओषधिः सर्पः भूत्वा राजानं दशेत् इति तयोः मनसि भीतिः।

(ii) इदं कस्मात् परिभ्रष्टम्?

(iii) तापसी बालकाय क्रीडनकरूपेण मृण्मयं मयूरं (भद्रमयूरं) यच्छति।

(२)

(i) 

प्रत्यक्षीकृता विक्रिया
भगवता मारीचेन

(ii)

  1. पठित्वा
  2. भूत्वा

(iii)

  1. मारीचेन
  2. विस्मयात् 
shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2025-2026 (March) Official Question Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×