हिंदी

Hindi Medium कक्षा १० - CBSE Question Bank Solutions for Sanskrit

Advertisements
[object Object]
[object Object]
विषयों
मुख्य विषय
अध्याय
Advertisements
Advertisements
Sanskrit
< prev  1021 to 1040 of 1112  next > 

अधोलिखितं नाट्यांशं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत-

चाणक्यः – भो श्रेष्ठिन्! प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियमिच्छन्ति राजानः।
चन्दनदासः – आज्ञापयतु आर्यः, किं कियत् च अस्मज्जनादिष्यते इति।
चाणक्यः – भो श्रेष्ठिन्! चन्द्रगुप्तराज्यमिदं न नन्दराज्यम्। नन्दस्यैव अर्थसम्बन्धः प्रीतिमुत्पादयति। चन्द्रगुप्तस्य तु भवतामपरिक्लेश एव।
चन्दनदासः – (सहर्षम्) आर्य! अनुगृहीतोऽस्मि।
चाणक्यः – भो श्रेष्ठिन्! स चापरिक्लेशः कथमाविर्भवति इति ननु भवता प्रष्टव्याः स्मः।

(i) एकपदेन उत्तरत-

(क) प्रीताभ्यः प्रकृतिभ्यः राजानः किम् इच्छन्ति? 

(ख) कस्य अर्थसम्बन्धः प्रीतिमुत्पादयति? 

(ii) पूर्णवाक्येन उत्तरत - 

(क) चन्दनदासेन (भवता) किं प्रष्टव्यम्? 

(iii) निर्देशानुसारम् उत्तरत 

(क) ‘दुःखाभावः’ इति अर्थे नाट्यांशे किं पदं प्रयुक्तम्?

(ख) ‘आर्य अनुगृहीतोऽस्मि’ अत्र ‘अस्मि’ इति क्रियापदस्य कर्तृपदम् किम्? 

(ग) 'किं कियत् च अस्मज्जनादिष्यते’ इति वाक्ये किं क्रियापदम्? 

[14] आदर्शप्रश्‍नपत्रम्
Chapter: [14] आदर्शप्रश्‍नपत्रम्
Concept: undefined >> undefined

अधोलिखितवाक्येषु रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

विद्वांस एव लोकेऽस्मिन् चक्षुष्मन्तः प्रकीर्तिताः।

[14] आदर्शप्रश्‍नपत्रम्
Chapter: [14] आदर्शप्रश्‍नपत्रम्
Concept: undefined >> undefined

Advertisements

अधोलिखितवाक्येषु रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

समीपे एका नदी प्रवहति।

[14] आदर्शप्रश्‍नपत्रम्
Chapter: [14] आदर्शप्रश्‍नपत्रम्
Concept: undefined >> undefined

अधोलिखितवाक्येषु रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत

अतिदाक्षिण्येन अलम्।

[14] आदर्शप्रश्‍नपत्रम्
Chapter: [14] आदर्शप्रश्‍नपत्रम्
Concept: undefined >> undefined

अधोलिखितवाक्येषु रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

 गहनकानने सा व्याघ्रं ददर्श।

[14] आदर्शप्रश्‍नपत्रम्
Chapter: [14] आदर्शप्रश्‍नपत्रम्
Concept: undefined >> undefined

अधोलिखितयोः श्लोकयोः अन्वये रिक्तस्थानानि पूरयत-

 त्यक्त्वा धर्मप्रदां वाचं परुषां योऽभ्युदीरयेत्।
परित्यज्य फलं पक्वं भुङ्क्तेऽपक्वं विमूढधीः।।

अन्वयः – यः ______ वाचं त्यक्त्वा ______ अभ्युदीरयेत् (स:) ______ पक्वं फलं परित्यज्य अपक्वं ______।

[14] आदर्शप्रश्‍नपत्रम्
Chapter: [14] आदर्शप्रश्‍नपत्रम्
Concept: undefined >> undefined

अधोलिखितयोः श्लोकयोः अन्वये रिक्तस्थानानि पूरयत-

अपत्येषु च सर्वेषु जननी तुल्यवत्सला।
पुत्रे दीने तु सा माता कृपार्द्रहृदया भवेत्।।

अन्वयः – सर्वेषु च ______ जननी ______ भवति। परं माता दीने ______ तु ______ भवेत्।

[14] आदर्शप्रश्‍नपत्रम्
Chapter: [14] आदर्शप्रश्‍नपत्रम्
Concept: undefined >> undefined

अधोलिखितस्य श्लोकस्य भावार्थे रिक्तस्थानपूर्ति मञ्जूषाप्रदत्तपदानां सहायतया कुरुत

यः इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च।
न कुर्यादहितं कर्म सः परेभ्यः कदापि च।।

मञ्जूषा – कार्यम् सुखप्राप्तेः कल्याणम्, अन्येषाम्

भावार्थ: – य: नरः आत्मनः ______ इच्छति, तस्य ______ अपि इच्छा अस्ति, सः ______ कृते कदापि अकल्याणकर ______ न कुर्यात् इति अवधातव्यम्।

[14] आदर्शप्रश्‍नपत्रम्
Chapter: [14] आदर्शप्रश्‍नपत्रम्
Concept: undefined >> undefined

अधोलिखितवाक्यानि घटनाक्रमानुसारं लिखत-

(i) बुद्धिमती व्याघ्रभयात् मुक्ता जाता।
(ii) ग्रामे राजसिंहः नाम राजपुत्रः वसति स्म।
(iii) गलबद्धशृगालक: व्याघ्रः सहसा पलायित:।
(iv) व्याघ्रः शृगालं निजगले बद्ध्वा काननं गतवान्।
(v) तस्य भार्या पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता।
(vi) जम्बुक: व्याघ्र पुनः तत्र गन्तुं प्रेरितवान्।
(vii) इयं व्याघ्रमारी इति विचिन्त्य भयेन व्याघ्रः पलायितः।
(viii) सा पुत्रौ उक्तवती-एकं व्याघ्रं विभज्य खादतम्।

[14] आदर्शप्रश्‍नपत्रम्
Chapter: [14] आदर्शप्रश्‍नपत्रम्
Concept: undefined >> undefined

अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गानुसारं शुद्धम् उत्तरं विकल्पेभ्यः चित्वा लिखत

अत्र जीवनं दुर्वहं जातम्।

[14] आदर्शप्रश्‍नपत्रम्
Chapter: [14] आदर्शप्रश्‍नपत्रम्
Concept: undefined >> undefined

अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गानुसारं शुद्धम् उत्तरं विकल्पेभ्यः चित्वा लिखत
संव्यवहाराणां वृद्धिलाभाः प्रचीयन्ते।

[14] आदर्शप्रश्‍नपत्रम्
Chapter: [14] आदर्शप्रश्‍नपत्रम्
Concept: undefined >> undefined

अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गानुसारं शुद्धम् उत्तरं विकल्पेभ्यः चित्वा लिखत 

तौयैः अल्पैः अपि तरोः पुष्टिः भवति।

[14] आदर्शप्रश्‍नपत्रम्
Chapter: [14] आदर्शप्रश्‍नपत्रम्
Concept: undefined >> undefined

अधोलिखितं पद्यांशं पठित्वा यथानिर्देशं प्रश्नान्‌ उत्तरत-

उदीरितोर्डर्थ: पशुनापि गृह्मते हयाश्च नागाश्च वहन्ति बोधिता:।
अनुक्तमप्यूहति पण्डितो जन: परेज्नितज्ञानफला हि बुद्धय:

(i) एकपदेन उत्तरत--

(क) केन उदीरित: अर्थ: गृह्यते?

(ख) का: परेज्नितज्ञानफला: भवन्ति?

(ii) पूर्णवाक्येन उत्तरत--

(क) पण्डित: जन: किम्‌ ऊहति?

(iii) निर्देशानुसारम्‌ उत्तरत-- 

(क) 'अश्वा:' इति अर्थ पद्चे किं पद प्रयुक्तम्‌?

(ख) 'मूर्ख:' इत्यस्य विलोमपद॑ श्लोकात्‌ चित्वा लिखता

(ग) “हयाश्च नागाश्च वहन्ति बोधिता:' इति वाक्ये कि क्रियापदम्‌?

[14] आदर्शप्रश्‍नपत्रम्
Chapter: [14] आदर्शप्रश्‍नपत्रम्
Concept: undefined >> undefined

अधोलिखित गद्यांश पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत -

पुरा अस्माकं देशे बहवः प्रसिद्धाः राजानः अभवन्‌। तेषु दुष्यन्तः नाम एकः नृपः आसीत्‌। तस्य भार्या शकुन्तला आश्रमे पुत्रम्‌ अजनयत्‌। तस्य नाम भरतः आसीत्‌। भरतः शैशवास्थायाम्‌ अपि आश्रमे सिंहशावकैः सह क्रीडति स्म। एकदा सः एकस्य सिंहशावकस्य मुखम्‌ उदघाटयत्‌ अवदत्‌ च- ‘जृम्भस्व सिंह! दन्तान्‌ ते गणयिष्यामि।’ सिंहशावकः अपि जानाति स्म यत्‌ भरतः अपि मया सहशः शिशुः अस्ति, मया सह च क्रीडति अतः सः भरताय नाक्रुध्यत्‌ न च आक्राम्यत्‌। तत्र तापसीभ्यां निषिद्धः अपि भरतः कथयति स्म - नाहं सिंहात्‌ विभेमि। इत्थम्‌ आसीत्‌ सः निर्भयः वीरः भरतः। भरतस्य अभिधानेन एवं अस्माकं देशस्य आर्यावर्तस्य नाम ‘भारतम्‌’ अभवत्‌।

अ. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्‌) (2)

  1. निर्भयः वीरः च कः आसीत्‌?
  2. भरतः कैः सह क्रीडति स्म?
  3. भरतस्य मातुः नाम किम्‌ आसीत्‌?

आ. पूर्णवाक्येन लिखत - (केवलं प्रश्नद्वयम्‌) (4)

  1. भरतः सिंहशावकं किम्‌ अवदत्‌?
  2. सिंहशावकः भरताय किमर्थं नाकरुध्यत् न च आक्राम्यत्‌?
  3. भरतः तापस्यौ किं कथयति स्म?

इ. अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। (1)

ई. यथानिर्देशम्‌ उत्तरत - (केवलं प्रश्नत्रयम्‌) (3)

(i) ‘इत्थम्‌ आसीत्‌ सः निर्भयः वीरः भरतः’ अत्र किं क्रियापदम्‌?

(क) इत्थम्‌
(ख) आसीत्‌
(ग) निर्भयः
(घ) वीरः

(ii) ‘सहशः’ इति विशेषणपदस्य विशेष्यपदं किम्‌?

(क) नृपः
(ख) वीरः
(ग) निर्भयः
(घ) शिशुः

(iii) ‘नृपाः’ इति पदस्य किं पर्यायपद गद्यांशे प्रयुक्तम्‌?

(क) सिंहशावकः
(ख) दन्तान्‌
(ग) राजानः
(घ) प्रसिद्धाः

(iv) ‘गणयिष्यामि’ इति क्रियापदस्य कर्तृपदं किं भवेत्‌?

(क) अहम्‌
(ख) ते
(ग) सः
(घ) दन्तान्‌

[1] अपठितावबोधनम्
Chapter: [1] अपठितावबोधनम्
Concept: undefined >> undefined

भवान्‌ जयपुरवासी राजेन्द्रः अस्ति। स्वमित्रं मुकेशं स्वभगिन्याः विवाहे निमत्रयितुं लिखितं पत्रं मञ्जूषायाः पदैः पूरयित्वा पुनः लिखत-

जयपुरतः
दिनाङ्क: ______

प्रियमित्र मुकेश!
सस्नेहं (i) ______।

अत्र कुशलं तत्रास्तु। भवान्‌ इदं (ii) ______ अत्यधिकः प्रसनः भविष्यति यत्‌ मम (iii) ______ दिव्यायाः विवाहः विजयनगरनिवासि-श्रीवेदप्रकाशस्य पुत्रेण (iv) ______ सह दिसम्बर-मासस्य एकादशतिथौ निश्चितः जातः। (v) ______ सायं सप्तवादने आगमिष्यति। अस्मिन्‌ मङ्गलावसरे भवान्‌ सपरिवारः सादरं निमत्रित:। भवता स्वपरिवारेण सह विवाहतः (vi) ______ पूर्वमेव अत्र आगत्य व्यवस्थायां (vii) ______ अपि करणीयम्‌। भवतः उपस्थिति: (viii) ______ उत्साह विश्वासं च वर्धिष्यते। इतो5पि भवतः जयपुरदर्शनस्य इच्छासिद्धि: अपि (ix) ______। गृहे पितृभ्यां मम प्रणामा:।

भवतः (x) ______

राजेन्द्र:

मञ्जूषा 

भविष्यति, मम, नमः, वरयात्रा, राकेशेन, सहाय्यम्‌,
भगिन्याः, अभिन्नहदय:, त्रिदिनानि, ज्ञात्वा

[12] रचना प्रयोग
Chapter: [12] रचना प्रयोग
Concept: undefined >> undefined

प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत -

मञ्जूषा - क्रीडन्ति, उद्यानस्य, भ्रमन्ति, पुष्पाणि, वृक्षाः, बालाः, चित्रकार्यम्, हरीतिमा, दोलयतः
[4] चित्रवर्णनम्
Chapter: [4] चित्रवर्णनम्
Concept: undefined >> undefined

मञ्जूषाप्रदत्तशब्दानां साहाय्येन निम्नलिखितं विषयम्‌ अधिकृत्य न्यूनातिन्यूनं पञ्चभिः संस्कृतवाक्यैः एकम्‌ अनुच्छेद लिखत -

“वायुप्रदूषणम्”

मञ्जूषा - स्वास्थ्यम्‌, पर्यावरणस्य, रक्षकाः उद्योगानाम्‌, प्राणवायुम्‌, वृक्षारोपणम्‌, उपायाः, निर्माणकार्यम्‌, सहायकाः, वाहनानां धूम्रः, श्वासरोगाः।
[3] अनुच्छेदलेखनम्
Chapter: [3] अनुच्छेदलेखनम्
Concept: undefined >> undefined

भवान सौरव:। स्वमित्रं शाश्‍वतं प्रति स्वयात्रावृत्तान्तविषये लिखितं पत्रं मञ्जूषाया: पदैः पूरयित्वा पुन: लिखतु।

प्रयागराजतः 

दिनाङ्क: ______

प्रिय मित्र (i) ______!

सस्नेहं (ii) ______

अत्र सर्व कुशलं तत्रास्तु। गतमासे अहं (iii) ______ शिमलां गतवान्‌। तत्र पर्वतानां (iv) ______ दृष्ट्वा मम मन: अतीव (v) ______ जातम्‌। तत्र (vi) ______ पर्यावरणं वर्तते। शिमला (vii) ______ राजधानी अस्ति। अतः तत्र सर्वत्र विकास: दृश्यते। देशात्‌ विदेशेभ्य: च पर्यटका: भ्रमणाय (viii) ______ आगच्छन्ति। अहमपि शिमलाभ्रमणं कृत्वा आत्मानं (ix) ______ मन्ये। भवान्‌ अपि समयं प्राप्य एकवारं शिमला गच्छेत्‌।

भवदीयं प्रियं मित्रम

(x) ______।   

मञ्जूषा - सौरव:, शिमलाम्‌, भ्रमणाय, प्रसन्नम्‌, धन्यम, सौन्दर्यम, शुद्धम्, हिमाचलप्रदेशस्य, नमोनम:, शाश्‍वत!
[12] रचना प्रयोग
Chapter: [12] रचना प्रयोग
Concept: undefined >> undefined

अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत:

'संस्कृतभाषा सर्वभाषाणां जननी' इत्युच्यते। परम्‌ अद्यत्वे छात्राणां मध्ये एक: चर्चित: प्रश्न: वर्तते यत्‌ "संसकृतपठनेन के लाभा:?" अर्थात्‌ संस्कृतपठनेन जीवनवृत्तेः अवसराः कै? वस्तुतः भौतिके युगे ईदृशी जिज्ञासा स्वाभाविकी एव। अस्या: जिज्ञासायाः समुचितं समाधानं सञ्चारमाध्यमेन कर्तुं शक्यते। वयम्‌ पश्याम: यत्‌ अद्यत्वे संस्कृतपटनेन नैके लाभा: सन्ति। संस्कृतभाषा विश्वस्य प्राचीनतमासु भाषासु अन्यतमा अस्ति। ऐतिहासिकदृष्ट्या संस्कृते लिखिता: ग्रन्था: वेदा: महत्त्वपूर्ण स्थानं भजन्ते। आधुनिकसंस्कृतस्य वैज्ञानिकभाषारूपेण सर्वत्र महत्त्वपूर्णं स्थानं दृश्यते। यदा विश्वं कृत्रिममेधा विषये अनुसन्धानं करोति तत्र संस्कृतं महत्‌ साहाय्यं कर्तुं शक्नोति। यतो हि संस्कृतस्य व्याकरणं पूर्णतया वैज्ञानिकम् अस्ति। वर्तमान समये संस्कृतस्य अध्येतारः शिक्षणकौशल-चिकित्सा-खगोल-विद्या-वास्तुविद्या- 'आई.ए.एस.' प्रभृति। सर्वेषु क्षेत्रेषु स्वप्रतिभाप्रदर्शनं कुर्वन्ति। अस्मांक संस्कृति: संस्कृताधारिता अपि। अत एव संस्कृतभाषाया: अध्ययनं जीवनमूल्यपरकम्‌ जीवनवृत्तिसाधनपरम्‌ च अस्ति, नात्र कोऽपि सन्देह:।

(अ) एकपदेन उत्तरतः (केवलं प्रश्नद्वयम्‌)            2

  1. सर्वभाषाणां जननी का?
  2. अस्माकं संकृतिः का आधारित वर्तते?
  3. कस्य व्याकरणं वैज्ञानिकम्?

(आ) पूर्णवाक्येन उत्तरत: (केवलं प्रश्नद्वयम्‌)        4

  1. ऐतिहासिकदृष्ट्या के महत्वपूर्णं स्थानं भजन्ते? 
  2. वर्तमानसमये शिक्षणकौशलादिषु सर्वेषु क्षेत्रेषु के स्वप्रतिभा-प्रदर्शनं कुर्वन्ति?
  3. संस्कृतभाषाया: अध्ययनं कीदृशम्‌ अस्ति?

(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत।         1

(ई) यथानिर्देशम्‌ उत्तरतः (केवलं प्रश्नत्रयम्‌)         3

(i) 'पश्याम:' इति क्रिया पदस्य कर्तृपंद किम्‌?

(A) नैके
(B) वयम्‌
(C) लाभाः
(D) संस्कृतपठनेन

(ii) 'समुचितम्‌' इति विशेषणपदस्य विशेष्यपदं किम्‌?

(A) समाधानम्‌
(B) संस्कृतशिक्षक:
(C) स्वानुभवैः
(D) जिज्ञासाया:

(iii) 'हानयः' इति पदस्य किं विपर्ययपदं गद्यांशे प्रयुक्तम्?

(A) सन्ति
(B) लिखिताः
(C) लाभाः
(D) नैके

(iv) 'अध्येतार:' इति कर्तृपदस्यं क्रियापदं कि प्रयुक्तम्?

(A) अस्ति
(B) सन्ति
(C) भजन्ते
(D) कुर्वन्ति

[1] अपठितावबोधनम्
Chapter: [1] अपठितावबोधनम्
Concept: undefined >> undefined

प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत।

मञ्जूषा - सुन्दराणि, अनेकानि, चित्राणि, ऐतिहासिकस्थानानि, भवनानि, नौका, नद्याम्‌, ताजमहलम्‌, पर्वता:, सन्ति, मन्दिरम्‌, रक्तदुर्गम्‌।
[4] चित्रवर्णनम्
Chapter: [4] चित्रवर्णनम्
Concept: undefined >> undefined
< prev  1021 to 1040 of 1112  next > 
Advertisements
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×